________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता
89
नमउक्तिं विधेम । "आ देवानामपि पन्थामगन्म यच्छकाम तदनु प्रवोढुम् । अग्निविद्वान्थ्स यजात् ॥२७॥ सेदु होता सो
नमस्कारोक्ति विधेम क्रियास्म । विधविधाने, आशिषि लिङ्, 'लिङ्याशिषि' इत्यङ्, यासुडादिः, 'छन्दस्युभयथा' इति सार्वधातुकत्वात्सलोपः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । नमस आधुदात्तत्वम् । 'पथो वा एषः '* इत्यादि ब्राह्मणम् ॥
तत्रैव याज्या-आ देवानामिति चतुष्पदा त्रिष्टुप् ॥ देवानां पन्यां पन्थानं कर्ममार्ग आगन्म आगता भूयास्म । 'मन्त्रे घसहर' इत्यादिना च्लेलृक् । यहा- बहुळं छन्दसि' इति शपो लुक् । 'पथिमथोस्सर्वनामस्थाने ' इति पथिनशब्दस्याधुदात्तत्वम् , द्वितीयैकवचनेपि व्यत्ययेन 'पथिमथ्यभुक्षामात् ' इत्यात्वम् । ये वयं कालातिपच्या कर्ममार्गात्प्रच्युतास्तेपि वयम् । यद्वा-यतः कर्ममार्गात्प्रच्युताः, तमपि पन्थानमागन्म । किं कात्स्न्येन सर्व निर्वोढुं शक्यत इत्यत आह-यच्छक्नवाम यावत्किञ्चिदेव विषये अनुष्ठातुं शक्नुयाम । लोव्याडागमः, सतिशिष्टो विकरणस्वरः । तदनु प्रवोढुं तच्छक्यं कर्मजातं अनुक्रमेणाविच्छेदेन निर्वोढुं पन्थानमगन्म । अविच्छेदेनानुष्ठानं प्रवाहः । प्रवोढुमित्यत्र 'तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । शक्तया कर्मप्रवाहो। लक्ष्यत इति लक्षणे अनोः कर्मप्रवचनीयत्वम् । यहा-तदिति लिङ्गव्यत्ययेन नपुं*सं. २-२-२.
खि-शक्यकर्मप्रवाहो.
*12
-
For Private And Personal Use Only