SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीयसंहिता [का. १. प्र. 1. मृतस्य॑ नः पतयो मृडयन्तु । अग्ने नय सुपा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य॑स्मर्जुहुराणमेनो भूयिष्ठां ते " अनये पथिकते पुरोडाशमष्टाकपालं निर्व पेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वातिपादयेत् '* इत्यस्य पुरोनुवाक्या--अग्ने नयेति त्रिष्टुप्चतुष्पदा ॥ हे अग्ने देव सुपथा शोभनेन मार्गेण शास्त्राविरुद्धेन । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वं, 'आद्युदात्तं यच्छन्दसि' इति तु न भवति अन्तोदात्तत्वात्पथिनशब्दस्य, क्रत्वादिर्वा द्रष्टव्यः, ‘न पूजनात् ' इति समासान्तप्रतिषेधः । ईदृशेन मार्गेणास्मान्नय । किमर्थं ?-राये धनाय हविर्लक्षणाय ; त्वदीयहविस्सम्पादनयोग्या वयं यथा भवामस्तथा कुर्वित्यर्थः । त्वं हि विश्वानि वयुनानि ज्ञानान्यभिप्रायान्विद्वान् । 'अनियमिशीभ्यश्च' इत्यजेरुनन्प्रत्ययः, 'अजेय॑घञपोः' इति वीभावश्च । किञ्च-एनः पापं दर्शपूर्णमासातिपत्तिलक्षणमस्मंदस्मत्तः युयोधि अपनय । यौतिः पृथग्भावे लोटि 'बहुळं छन्दसि' इति शपः श्लुः, ' वा छन्दसि' इत्यपित्त्वाभावेन अङित्त्वात् 'अङितश्च ' इति धिभावः । कीदृशमेनः?-जुहुराणं कुटिलस्वभावम् · । हुर्छ कौटिल्ये इत्यस्मात् ‘हुर्छस्सनो लुक् छलोपश्च' इत्यानच्प्रत्ययः। हुर्छितुमिच्छति जुहुराणम् । यद्वा--हृ प्रसह्यकरणे, जुहोत्यादिकः, तस्मात्ताच्छीलिके चानशि शपः श्लुः, 'बहुळं छन्दसि' इत्युत्वम् । तदर्थं वयं ते तुभ्यं भूयिष्ठां बहुतमां नमउक्ति *सं. २-२-२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy