________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
- भट्टभास्करभाष्योपेता
87
क्षेत्रस्य पते मधुमन्तमूर्मि धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतै घृतमिव सुपूतदिकः, ‘लेटोडाटौ ' इत्याडागमः । ईदृशे यथोक्ते गवादावर्थे अस्मान् स्वामित्वेन स्थापयित्वा मुखयतु । ' त्यदादिषु दृशः' इति कञ् , इदम ईशादेशः, कृदुत्तरपदप्रकृतिस्वरत्वम् । अत्र यणादेशसवर्णदीर्घयोरकरणेन तृतीयचतुर्थपादौ पूरयितव्यौ ।
तत्रैव याज्या-क्षेत्रस्य पत इति चतुप्पदा त्रिष्टुप् ॥ हे क्षेत्रस्य पते । पराङ्गवद्भावेन पष्ठयामन्त्रितसमुदायस्य पाष्ठिकमामन्त्रितायुदात्तत्वम् । मधुमन्तमूर्मिं मधुरेण क्षीरादिना तद्वन्तमूर्मिं अरणशीलं गवादिसमुदायम् । 'अर्तेरूच्च' इति ऋगतावित्यस्मात् मिप्रत्ययः ऊकारश्चान्तादेशः । मधुश्चुतं मधुरं क्षीरादिकमासिञ्चन्तं, न केवलं मधुमन्तं, अपि तु सर्वदा प्राणिभ्य*स्त्रवन्तम् । श्रुतिर आसेचने, कृदुत्तरपदप्रकृतिस्वरत्वम् । घृतमिव सुपूतम् । 'सुः पूजायाम् ' इति कर्मप्रवचनीयत्वम् , 'स्वती पूजायाम् ' इति प्रादिसमासः, तेनाव्ययपूर्वपदप्रकृतिस्वरत्वम् , गतित्वाभावात् ' सूपमानात् क्तः' इत्येवं न भवति । ईदृशं गवादिसमुदायमस्मासु धुक्ष्व । स्वयमेव धुक्ष्व अस्मद्वात्सल्येन, यथा धेनुः पयस्स्वयमेव दुग्धे दोग्धृवात्सल्येन । कर्मकर्तरि लकारः, 'न दुहस्नुनमां' इति यक्प्रतिषेधः । यद्वाक्षेत्रमित्यध्याहियते, गवादिसमुदायं क्षेत्राणि, दुहिः स्वरितेत् । किञ्च-ऋतस्य यज्ञस्य पतयोग्न्यादयो देवाः नोऽस्मानस्मदीयं वा त्वया दीयमानं गवादिसमुदायं मृडयन्तु सुखयन्तु । 'छन्दस्युभयथा ' इति णिचस्सार्वधातुकत्वेन डिवाल्लघूपधगुणाभावः ।।
*क. ग-वत्सकादिप्राणिभ्यः.
For Private And Personal Use Only