________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता
का. १.प्र . १.
धियंधिय५ सीषधात प्र पूषा । 'क्षेत्रस्य पतिना वय हितेनैव जयामसि । गामश्व पोषयित्न्वा स नः ॥ २६ ॥ मृडातीहशे ।
यते---धियंधियमित्यादिना चतुर्थेन पादेन ॥ सर्वां धियं प्रज्ञाम् । स पूषा प्रकर्षेण सीषधाति साधयत्वस्माकम् । सिद्धयतेय॑न्ताद्धातुत्वे कृते लेटि 'बहुळं छन्दसि' इति शपलुद्धि र्वचनानि, 'बहुळं छन्दसि' इत्यभ्यासस्येत्वम् , तुजादित्वादभ्यासस्य दीर्घः, वर्णव्यत्ययेन धातोर्हस्वत्वम् , 'लेटोडाटौ' इत्यात्वम् , 'छन्दस्युभयथा ' इति लेट आर्धधातुकत्वाण्णिलोपः, ' इण्कोः ' इति षत्वम् । यद्वा-विकरणव्यत्ययेन च्लेः ‘णिश्रि' इत्यादिना चद्धिर्वचनादिः, णौ चङयुपधाया ह्रस्वत्वम् ॥
'क्षेत्रपत्यं चकै निर्व पेज्जनतामागत्य '* इत्यस्य पुरोनुवाक्या-चतुष्पदानुष्टुप् ॥ क्षेत्रस्य निष्पत्त्याधारस्य, पतिना पत्याऽधिष्ठात्रा । 'षष्ठीयुक्तश्छन्दसि वा' इति घिसंज्ञा । तेनानुगृह्यमाणा वयं जयामसि जयामः । 'इदन्तो मसि' इति इकारः । केनेव ?-हितेनेव ; यथा हितेन मित्रेण जनेन अमित्रं जयति, एवं क्षेत्रपतिना जयेम । किं जयेम ?--गामश्वं पोषयिनु पोषकमन्नादिकं प्रजाम् । आकारस्समुच्चये । गां चाश्वं च पोषयित्नु च । पुर्ण्यन्तात् 'स्तनिवृषिपुषि' इत्यादिना इनुच्प्रत्ययः, 'अयामन्ताल्वाय्येन्विष्णुषु' इति णेरयादेशः । स च क्षेत्रपतिः नोस्मान् मृडाति मृडयतु सुखयतु । मृड सुखने, तौदा
*सं. २-२-१.
For Private And Personal Use Only