SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १४.] भभास्करभाष्योपेता 85 अभ्यानडर्कम् । स नौ रासच्छुरुधश्चन्द्राग्रा सकारः, 'अनुदात्तस्य च यत्रोदात्तलोपः' इति विभक्तेरुदात्तत्वम् , ' अनुदात्तं च ' इत्यानेडितस्यानुदात्तत्वम् । परिपति परिपालयितारम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अर्क स्तोतव्यम् । अर्कस्तवने, कर्मणि घन् ; अर्चतेर्वा घञ् , 'चजोः कुघिण्यतोः ' इति कुत्वम् , उभयत्राप्युञ्छादित्वादन्तोदात्तत्वम् । ईदृशं हि पूषणं कामेन वशीकृतो जनः वचस्या वचसा स्तोत्ररूपेण । तृतीयैकवचनस्य यानादेशः । अभ्यानट् अभिप्राप्नोति । तस्मादहमप्यद्य त्वामुपागतोस्मीति भावः । अशू व्याप्तौ, 'छन्दसि लुङ्लङ्लिट: ' इति लङ्, भम्परस्मैपदे •व्यत्ययेन, हल्ङयादिलोपे व्रश्चादिना षत्वम् । यहा-नशेर्गतिकर्मणः लुङि ' मन्त्रे घस' इति च्लेर्लुक् , 'छन्दस्यपि दृश्यते' इत्याडागमः । स पूषा नोऽस्मभ्यं रासत् ददातु । रातेलेटि 'सिब्बहुलं लेटि' इति सिप् , 'लेटोडाटौ' इत्यडागमः । किं ददातु ?—शुरुधः शोकस्य रुधः निवारयित्रीः । क्विप् , कृदुत्तरपदप्रकृतिस्वरत्वम् , एषोदरादित्वाद्व्यञ्जनस्य लोपः । काः पुनस्ताः ?–चन्द्रायाः ओषधीः; चन्द्रः हिरण्यं, असितनातिर्वा चन्द्रः, सः अग्रं प्रधानमीश्वरो वा यासां ताः अस्मभ्यं ददातु* । इदानी प्रज्ञावतामेव धनवत्तया प्रयोजनमिति तां प्रार्थ *क.-किं ददातु ?-शुरुधः शुश्नुवो [शुचो निरोधीरेव चन्द्रायाः निर्मलाः । यद्वा-शं क्षधं दारिद्यं वा निरुणद्रीति शुरुधः ।। ग.-ओषधीः रजतजाति: धौतचन्द्रः [रजतजातिर्वाऽत चन्द्रः] धनानि । शुक् शोकः तां रुणद्धि निवारयतीति शुरुध् । शुक्छब्दस्य ककारलोपश्छान्दसः । वर्णागमो वर्णविपर्ययश्च । यौरा......रण्यमयं मुखं यासां ताः चन्द्रामाः । अनः प्रधानमीश्वरो यासां ताः न: अस्मभ्यं ददातु. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy