SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 84 तैत्तिरीयसंहिता का. १. प्र... सद्य उगते धेष्ठा । वय, त्वा पथस्पते रथं न वाजसातये । धिये पूषन्नयुज्महि । 'पृथस्थः पर्रिपतिं वचस्या कामैन कृतो भक्तराकारः । तौ तादृग्गुणौ युवां यस्माज्जोहवीमि, तस्मादिमं स्तोमं जुषेथाम् , अस्मिन्निन्द्रियादिकं च धत्तमिति ।। __ अथ सङ्गामं जित्वा जनतामेष्यतः ‘पौणं चरुमनु निर्व पेत् '* इति पौष्णश्चरुः अनुनिर्वाप्यत्वेनाम्नातः । तत्र पुरोनुवाक्यावयमिति गायत्री त्रिपदा ॥ हे पथस्पते मार्गस्य पालयितः।। 'षष्टयाः पतिपुत्र' इत्यादिना विसर्जनीयस्य सकारः, 'सुबामन्त्रिते पराङ्गवत्स्वरे' इति षष्ठयन्तस्य पराङ्गवद्भावात् षष्ठयन्तामन्त्रितसमुदायो निहन्यते । हे पूषन् वयमु वयमेव त्वामयुज्महि योजयामः । 'छन्दसि लुङललिटः' इति लङ्, 'बहुळं छन्दसि' इति शपो लुक् । कमिव ?-रथं न रथमिव । उपरिष्टादुपचारत्वात् । उपमानार्थो नशब्दः । किमर्थं ?—धिये कर्मणे, कर्मसिध्यर्थम् । 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । धीविशेष्यते----वाजसातये, वाजोऽन्नं स सन्यते लभ्यते अस्यामिति । अधिकरणार्थे क्तिनि, 'जनसनखनाम् ' इत्यात्वम् । 'मक्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः' इत्युत्तरपदान्तोदात्तत्वं बाधित्वा दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । ईदृशकर्मसिद्धयर्थं त्वां योजयामः इति ॥ तत्रैव याज्या-पथस्पथ इति चतुष्पदा त्रिष्टुप् ॥ पथस्पथः सर्वस्य मार्गस्य । 'कस्कादिषु च ' इति विसर्जनीयस्य *सं. २.२.१. क-दर्शयितः. ख-चारात्. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy