SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 83 जातमद्येन्द्राग्नी वृत्रहणा जुषेाम् ॥ २५ ॥ उभा हि वा सुहवा जोहवीमि ता वाज निर्दोषं स्तोमं स्तोत्रं नवजातं नवं अभूतपूर्व जातं जननं अस्येति । बहुव्रीही पूर्वपदप्रकृतिस्वरत्वम् । अद्यास्मिन्नहनि । हे इन्द्राग्नी । पादादित्वान्न निहन्यते, पाष्ठिकमामन्त्रितायुदात्तत्वम् । वृत्रहणा वृत्रस्य पापस्य हन्तारौ युवाम् । ‘सुपां सुलुक् ' . इत्यादिना आकारः, ' नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' इति पूर्वस्याविद्यमानवत्त्वनिषेधात् निहन्यते । जुषेथां सेवेथां नु क्षिप्रम् । ‘आमन्त्रितं पूर्वमविद्यमानवत् । इत्य*विद्यमानवत्वान्न निहन्यते, लसार्वधातुकानुदात्तत्वे विकरणस्वरः । हि यस्मात् उभा उभौ वां युवां सुहवा स्वाह्वानौ आहूयमानावप्यरोषौ । 'बहुळं छन्दसि ' इति प्रागेव प्रत्ययोत्पत्तेः अनैमित्तिके सम्प्रसारणे कृते, आतोयुजोप्रसङ्गात् ' ईपद्दस्मुषु कृच्छ्राकृच्छ्रार्थेषु खल् ' इति खलप्रत्ययः, दुत्तरपदप्रकृतिस्वरत्वम्, उभासुहवेति ‘सुपां सुलुक् ' इत्याकारः । ईदृशौ वां युवां जोहवीमि भृशमाह्वयामि । ह्वयतेर्यङ्लुक् , ' अभ्यस्तस्य च । इति सम्प्रसारणम्, 'यङो वा' इति ईडागमः, 'हि च ' इति निघाते निषिद्धे 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । ता तौ युवां वाजं अन्नं उशते कामयमानाय यजमानाय । 'शतुरनुमो नद्यनादौ ' इति विभक्तेरुदात्तत्वम् । सद्यः तदानीमेव धेष्ठा धातृतमौ । धानकर्मणो दधातेस्तृचि 'तुश्छन्दसि' इतीष्ठन्प्रत्ययः, ' तुरिष्ठेमेयस्सु ' इति तृशब्दस्य लोपः, पूर्ववद्वि *क. ग-द्वयोरप्यामन्त्रितयोर...... For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy