________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'तैत्तिरीयसंहिता
[का. १. प्र. १.
vvvVAVAN
'इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकैन कर्मणा । 'शुचिं नु स्तोम नवतत्वम् । युवभ्यां युवाभ्याम् । आत्वाभावश्छान्दसः । स्तोमं स्तोत्रं जनयामि करोमि । नव्यं अभिनवम् । 'वस्वपसोककविक्षेमवचोनिप्केवलोक्थजनपूर्वनवसूरमर्तयविष्ठेभ्यश्छन्दसि स्वार्थे यद्वक्तव्यः' इति यत्प्रत्ययः । 'यतो नावः' इत्याद्युदात्तत्वम् । • एवमनेन स्तोत्रेण तृप्तौ युवां दातृतमौ प्रजां मे दत्तमिति । — इन्द्राग्नी वा एतस्य प्रजामुपगृहतः '* इत्यादि ब्राह्मणम् ॥
अथ 'ऐन्द्राममेकादशकपालं निर्व पेत्सङ्गामं जित्वा '* इत्यस्य पुरोनुवाक्या-इन्द्राग्नी नवतिमिति गायत्री त्रिपदा ॥ हे इन्द्रामी । षाष्ठिकमायुदात्तत्वम् । नवतिं नवतिसङ्ख्याकाः पुरः असुराणां पुरीः शत्रूणां वा । दासपत्नीः दासाः उपक्षपयितारः प्रजानां, तादृशाः पतयस्स्वामिनो यासां पुराम् । दंसिः सौत्रो धातुरुपक्षयवृत्तिः, 'दंसेष्टटनौ न आच' इति टप्रत्ययः, बहुव्रीहौ ‘विभाषा सपूर्वस्य ' इति नकारः । साकं सहैव एकेन कर्मणा प्रहरणलक्षणेन तादृशीः पुरः अधू नुतं अकम्पयतं नाशितवन्तौ । धूञ् कम्पने स्वादिः, वर्णव्यत्ययेन दीर्घः, क्रैयादिकाहा धूलो विकरणव्यत्ययेन प्रत्ययः । तस्मादेवं महानुभावौ युवां इमं यजमानं सङ्गामे जितवन्तमनुगृह्णीतं अस्मिनिन्द्रियादिकं धत्तम् । 'विवा एष इन्द्रियेण वीर्येणग्रं ते '* इत्यादि ब्राह्मणम् ॥ तत्रैव याज्या-शुचिमिति चतुष्पदा त्रिष्टुप् ॥ शुचिं
*सं. २-२-१,
For Private And Personal Use Only