________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनु. १४.]
भट्टभास्करभाष्योपेता
___81
व हि भूरिदातरा वां विजामातुरुत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्यामिन्नी स्तोमै जनयामि नव्य॑म् । 'आतो मनिन् ' इत्यादिना वनिप्प्रत्ययः, ततः प्रकर्षविवक्षायां तरप्प्रत्ययः, 'भूरिदानस्तुट् ' इति तुडागमः, द्वितीयाद्विवचनस्य 'सुपां सुलुक् ' इत्याकारः, कृदुत्तरपदप्रकृतिस्वरत्वम् । यस्मादहं युवां भूरिदावत्तरौ अश्रवं युवां दातृतमावशृणवम् । शृणोतेर्लङि शपो लुक् । कस्मात्पुनरतिशयिनावित्यत आह-विजामातुः, विद्यावयोरूपादिभिर्विहीनो जामाता विजामाता । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । विजामाता हि कन्यालोभात्कन्यावते भूरि धनं ददाति; तस्मै* यथा वैगुण्यमनादृत्य कन्यां प्रयच्छति । तस्मादपि युवां दातृतमावशृणवम् । उत वा अपि वा स्यालाधुवां दातृतमावशृणवम् । स्यालो भार्याभ्राता । सोपि भगिनीस्नेहेन तद्भर्ने भूरि धनं ददाति । यस्मादेवमाभ्यामपि युवां दातृतमावशृणवं, तस्माद्युवामेवाह्वयामि । घशब्दः पादपूरणे प्रसिद्धौ वा । 'ऋचि तुनुघ' इत्यादिना तस्य संहितायां दीर्घः । 'अथादावुत्तरे विभाग द्वस्वं व्यञ्जनपरः । देवाशिकासुम्राश्वर्तावयुनाहृदयाघोक्थाशुद्धा + इति पदकाले द्वस्वत्वम् । अथ एतस्मात्कारणात् । 'निपातस्य च ' इति संहितायां दीर्घत्वम् । सोमस्य सोमसदृशस्यास्य हविषः प्रयती प्रयत्या प्रदानेन । ' तादौ च निति कृत्यतौ ' इति गतेः प्रकृतिस्वरत्वम् । तृतीयैकवचनस्य ‘सुपां सुलुक् ' इति पूर्वसवर्णदीर्घत्वम् । हे इन्द्राग्नी । पादादित्वात् षाष्ठिकमामन्त्रिताद्युदा*क-सः. [अनेन कन्यावान् परामृश्यते.] ते, प्रा. ३-१-१२२.
*11
For Private And Personal Use Only