SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 80 तैत्तिरीयसंहिता का. १.प्र . १. णामुभा वाज॑स्य सातये हुवे वाम् । अर्धमियं पुरोनुवाक्या-उभा वामिन्द्राग्नी इति त्रिष्टुप्चतुप्पदा ॥ अयं च सर्वोनुवाको वैश्वदेवकाण्डम् । हे इन्द्रानी वां उभा उभौ । द्वितीयाद्विवचनस्य ‘सुपां सुलुक् ' इत्याकारः, “एकादेश उदात्तनोदात्तः । इत्युदात्तत्वमेकादेशस्य । हुव इति वक्ष्यमाणेन सम्बन्धः, युवां आह्वयामि । किमर्थं ?-आहुवद्धयै आभिमुख्येन होतुं आहुतिप्रदानेनाराधयितुम् । जुहोतेः 'तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेड्वेनः' इति कध्यैप्रत्ययः । किञ्च-राधः ओदनं हविर्लक्षणम् । ‘सुपां सुपो भवन्ति ' इति तृतीयार्थे षष्ठी, हेतौ वा पञ्चमी । उभा युवां सहैव योगपद्येनैव नैकैकश्येन राधसा मादयद्धचै मादयितुं सहैव तर्पयितुं वा आह्वयामि । मदेर्ण्यन्तात्तेनैव सूत्रेण शध्यै*प्रत्ययः, सार्वधातुकत्वाण्णिलोपो न क्रियते । अनयोरेवाहाने कारणमाह—युवामेव ह्युभौ इषां अन्नानां रयीणां धनानां क्षेत्रपुत्रपश्वादीनां दातारौ । 'सावेकाचः' इति नामन्यतरस्याम् ' इति च षष्ठीबहुवचनस्योदात्तत्वम् । तस्माद्वाजस्यानस्य सातये लाभाय । 'ऊतियूति' इत्यादिना उदात्तः क्तिन्निपातितः, 'जनसनखनां सञ् झलोः ' इत्यात्वम् । तौ तादृशौ उभौ युवां हुवे आह्वयामि । ह्वयतेः 'बहुळं छन्दसि' इति शपो लुक् , 'हस्सम्प्रसारणम् ' 'अभ्यस्तस्य च' 'बहुळं छन्दसि' इति सम्प्रसारणम् ॥ "तत्रैव याज्या-अश्रवमिति चतुष्पदा त्रिष्टुप् ॥ इतश्च युवामेवाह्वयामीति हेत्वन्तरमाह-भूरि ददातीति भूरिदावा । *ख-कध्य. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy