________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भट्टभास्करभाष्योपेता
79
- 'उभा वामिन्द्राग्नी आहुवध्या उभा राधसस्सह मादयध्यै । उभा दाताराविषा५ रयीयत्र स्थिताः ते यूयं गातुमित येन मार्गेणागताः तमेव मार्ग भजत समाप्ते कर्मणि तेनैव प्रतिनिवर्तध्वम् । किञ्च, हे मनसस्पते सर्वभूतानामन्तरात्मन् । 'सुबामन्त्रिते पराङ्गवत् । इति षष्ठ्यन्तस्य परामन्त्रितानुप्रवेशात् षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रितायुदात्तत्वम् , पदात्परत्वाभावान्निघाताभावः, षष्ठ्याः पति' इत्यादिना विसर्जनीयस्य सकारः । हे देव इममस्माकं यज्ञं देवेषु अग्न्यादिषु धाः धेहि स्थापय । एवं हि सरस्वत्याह । तदनन्तरं वाचि वाग्देवतायां शब्दब्रह्मणि च धाः । 'सावेकाचः ' इति विभक्तेरुदात्तत्वम् । वाचि धा इति सरस्वत्याह । ततः पश्चादिमं यज्ञं वाते सर्वक्रियाधारे धाः स्थापय । यस्मादयं यज्ञः प्रयुक्तः तत्रैव वाते स्थापय । 'वाताहा अध्वर्युर्यज्ञं प्रयुङ्क्ते , इत्यादि ब्राह्मणम् । दधातेः लेटि 'बहुलं छन्दसि ' इति शपो लुक् , ' इतश्च लोपः परस्मैपदेषु , इतीकारलोपः ॥
इति त्रयोदशोनुवाकः.
" प्रजापतिः प्रजा असृजत तास्सृष्टा इन्द्राग्नी अपागूहताम् । इति प्रश्ने काम्या इष्टय आनाताः । तत्र 'ऐन्द्रानमेकादशकपालं निर्व पेत्प्रजाकामः " इति प्रथमा । तस्या*ग-सर्वभूतानामन्तरात्मतया मनसोपि पते. क-......रात्मनो मन....... ब्रा. ३-३.९.
सं. २-२-१.
For Private And Personal Use Only