SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. १४.] भभास्करभाष्योपेता 98 याय शं योः । "त्वम॑ग्ने व्रतपा असि देव उर्वी मेदिनी । स एव स्वरः । सा बहुळा भवतु बहुभिर्धनधान्यपश्वादिभिस्तद्वती भवतु । सिध्मादिलक्षणो लच् । यहाबहूनामर्थानां लात्री आदात्री उत्पादयित्री भवतु । लातेः 'आतोनुपसर्गे' इति कः । किञ्च-तोकाय अस्मदीयाय अपत्याय तनयाय तस्यापत्याय अस्मत्पौत्राय शं शमयिता रोगाणां भव । शमय॑न्तात्विप , मितां द्वस्वः, ‘णेरनिटि ' इति णिलोपः । किञ्च-योः यापयिता पृथकर्ता आगामिनां भयानां अस्मदीयजनसकाशादपनेता च भव । यौतेः 'अन्येभ्योपि दृश्यन्ते । इति विच् , 'ओतो णित् ' इति बहुलवचनान्न भवति । 'षष्ठयर्थे चतुर्थी वक्तव्या' इति वा 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति वा चतुौँ । तोकं तनयं च रक्षितुं शं योश्च भव । 'हृयचोतस्तिङः' इति संहितायामस्य दीर्घत्वम् ॥ __13 अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्व पेद्य आहिताग्निस्सन्नव्रत्यमिव चरेत् '* इत्यस्य पुरोनुवाक्या-त्वमग्ने इति त्रिपदा गायत्री, अष्टकसप्तकषपदा प्रतिष्ठानाम्नी, 'षट्सप्तकाष्टकैर्वर्धमाना । विपरीता प्रतिष्ठा + इति वचनात् ॥ देव इति सप्तमीबहुवचनस्य ‘सुपां सुलुक् ' इत्यादिना स्वादेशः । आकारौ समुच्चयवाचिनौ । हे अग्ने देवेषु च मर्येषु च त्वमेव व्रतपाः व्रतानां पाता रक्षकः नान्यः कश्चित् । पातेः ‘अन्येभ्योपि दृश्यन्ते' इति वचनाद्विच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । किञ्च-त्वमेव यज्ञेषु ईयः स्तुत्यः । 'ईडवन्दवृशंसुदुहां ण्यतः' इत्याद्युदात्तत्वम् । अतोस्मानखण्डितव्रतान् पाहि । त्वामेव वयं स्तुम इति भावः ।। *सं. २.२.२. पिं. ३.१४, १५. ख. ग-क्विप्. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy