SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 . तैत्तिरीयसंहिता का. १. प्र. १. आ मयेष्वा । त्वं यज्ञेष्वीड्यः । "यो वयं 1 तत्रैव याज्या- यह इति चतुष्पदा त्रिष्टुप् ॥ हे देवा वो युष्माकं विदुषामखण्डितज्ञानानां सम्बन्धीनि व्रतानि कर्माणि वयं अविदुष्टरासः अविद्वत्तराः क्षणेक्षणे सम्भाव्यमानप्रमादाः । अयस्मयादित्वेन भत्वाद्वसोस्सम्प्रसारणम् , 'आजसेरसुक्', अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ईदृशा वयं यद्यस्मात् प्रमिनाम हिंसितवन्तः। मीङ् हिंसायां क्रयादिः, तस्मात् ' उपसंवादाशङ्कयोश्च ' इत्याशङ्कायां लेट् । कारणतः कार्यानुमानमाशङ्का । अज्ञानातिशयेन कर्मलोप आशयते । 'लेटोडाटौ' इत्याडागमः, 'स उत्तमस्य' इति सकारलोपः, ' मीनातेर्निगमे ' इति धातोः ह्रस्वत्वम् , 'हिनुमीना' इति णत्वं बहुलवचनान्न भवति । तत् तस्मात्कारणाद्विश्वं (अ) खण्डितं सर्व कर्मजातं अग्निरेवायमिज्यमानः व्रतपतिनामा आपृणाति आभिमुख्येन पूरयतु अखण्डितमापादयतु । पू पालनपूरणयोः, लेट 'प्वादीनां ह्रस्वः' इति द्वस्वत्वम् , विकरणव्यत्ययो वा । तत्रैव हेतुः-विद्वान्, यस्मादयमग्निर्विद्वान् । 'विदेश्शतुर्वसुः ' 'उगिदचाम् ' इति नुम् , ' सान्तमहतस्संयोगस्य ' इति दीर्घः, संयोगान्तलोपः । सर्वज्ञ इत्यर्थः । तस्मादापूरणोपायज्ञो यथा स्यात्तथा* कर्तुं समर्थ एवेति भावः । के पुनस्त उपाया इत्यत आह-येभिर्यैः । 'बहुलं छन्दसि ' इति भिस ऐस् । ऋतुभिः कालावयवैः पौर्णमास्यादिभिः युष्मान् देवानग्न्यान्ना दीन् कल्पयाति देवशब्दवाच्यहविाजाद्यैः दीन् यैः] कल्पयति कल्पयितुमर्हति । 'अर्हे कृत्यतृचश्च' इति लिङर्थे लेट् , पूर्ववदाडागमः । तत्कालादीन वयवान् विदुषोग्नेः व्रतस्याखण्डितत्वापादनमात्रं किय*ग-सर्वज्ञ इत्यर्थः । आपूरणोपायज्ञ एवं. ख-तत्कालाय. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy