________________
Shri Mahavir Jain Aradhana Kendra
72
www. kobatirth.org
तैत्तिरीयसंहिता
[का. १. प्र. १.
10
प्या॑यन्ता॒मापू
" प्र॒जां योनं मा निर्मृक्ष " मा ओष॑धयो म॒रुतां॒ पृष॑तयस्स्य॒ दिव॑म् ॥ २२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
-
"ध्रुवायां मूलमनक्ति – प्रजामिति ॥ अहं प्रजां योनिं च तत्कारणभूतं अन्नादिकं, मा निर्मृक्षं मा विनीनशं, अपितु वर्धयितुमिच्छामि ; तस्मा तद्वृद्धयर्थं वियन्तु वय इति । मृशेः ' शल इगुपधादनिट: क्सः' इति च्ले: क्सादेशः । कदुत्तरपदप्रकृतिस्वरेण प्रजाशब्दान्तोदात्तः ॥
6
अत्र, प्रथमद्वितीयपादावष्टाक्षरौ तृतीयो द्वादशाक्षरो यस्यास्तां परोष्णिहमाचक्षते । इह तु तृतीयोष्टाक्षरः पादः, 'द्वादशाक्षरः आष्टाक्षरतायाः ; प्रतिक्रामति' इति प्रथमद्वितीयौ पञ्चाक्षरौ, अष्टाक्षर आ चतुरक्षरतायाः प्रतिक्रामति' इति ॥
"आहवनीये प्रस्तरं प्रहरति - आप्यायन्तामिति यजुरादिकया। ' दिवं गच्छ ' इत्येकपदया जगत्या, ' ततो नः' इत्येकपदया च गायत्र्या ॥ हे प्रस्तर अनेन त्वत्प्रहरणेन आप ओषधयश्च आप्यायन्तां वर्धन्ताम् वर्षेण ह्यपामोषधीनां च वृद्धौ प्रजा योनयश्च वर्धयितुं शक्यन्त इति । औषधिशब्दस्य दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । ओषशब्दो घञन्तः । कथमेतप्रहरणेन तासामाप्यायनमित्यत आह — मरुतां पृषतयः अश्वाः
"
*पिं-३-२१.
†क-इह तु — अष्टाक्षराः आ चतुरक्षरतायाः प्रतिक्रामन्ति' इति प्रथमद्वितीयौ पञ्चाक्षरावभूताम् । 'द्वादशाक्षराः आऽष्टाक्षरतायाः प्रतिक्रामन्ति' इति तृतीयो - ष्टाक्षरोभूत्.
1. क. ग-यजुषा.
For Private And Personal Use Only