________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.]
भट्टभास्करभाष्योपेता
73
गच्छ ततो नो वृष्टिमय । "आयुष्पा अंग्नेस्यायुमें पाहि चक्षुष्पा अंग्नेसि चक्षुर्मे पाहि
स्थ, मरुतामश्वा इव शीघ्रगतिस्त्वमसीति यावत् । अश्वापेक्षया बहुवचनम् । एषु वृषु सेचने, 'वर्तमाने टपबृहन्महज्जगच्छतृवत् ' इत्यतिप्रत्ययान्तो निपातितः, व्यत्ययेन शः, 'उगितश्च ' इति डीप् , वर्णव्यत्ययेन द्वस्वत्वम् , लसार्वधातुकानुदात्तत्वे धातुस्वरः, 'शतुरनुमः ' इत्याद्युदात्तत्वं बहुलवचनादेव न क्रियते शस्वरश्च । वृषादियिं द्रष्टव्यः । भवत्वेवं शीघ्रगतित्वं, किमेतावता तासां वृद्धिरित्यत आह—दिवमादित्यं शीघ्रं गच्छ । ततः किमित्यत आह—ततः आदित्यमण्डलादस्माकं वृष्टिमेरय आगमय । एवं च कृते अपामोषधीनां चाप्यायनं भविष्यति । ततश्च प्रजायोन्योवृद्धिश्च भविष्यति । 'मन्त्रे वृष' इति वृषेः क्तिनः उदात्तत्वं विधीयमानं बहुलवचनान्न क्रियते । यहा-~-वृष्टिहेतुरादित्यरश्मिः वृष्टिः । करणे क्तिन् । तामेरय अस्मदभिमुखं प्रेरय । उदात्तविधौ भावाधिकारादत्र न भवति ॥
"आहवनीयमुपतिष्ठते-आयुप्पा इति ॥ हे अग्ने आयुष्पाः सर्वेषामायुषो रक्षकोसि । पातेविच , 'नित्यं समासेऽनुत्तरपदस्थस्य ' इति विसर्जनीयस्य सः, 'आदेशप्रत्यययोः' इति षत्वम् , कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्मादायुर्मे पाहि । चक्षुषश्च त्वं रक्षितासि, तस्मान्मे चक्षुः पाहि अविनष्टं कुरु । ' यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्यायुर्मीयते '* इत्यादि ब्राह्मणम् ॥
*बा.३-३-९.
*10
For Private And Personal Use Only