________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
70 ~~~~
तैत्तिरीयसंहिता
का. १. प्र. १.
सपत्ना५ इन्द्रो मे निग्राभेणाधरा अकः। "उद्गाभं च निग्राभं च ब्रह्म देवा अवीवृधन् । 'अर्थी सपत्नानिन्द्रानी में विषूची
मे मम सपत्नान् शत्रून् इन्द्रः अधरान्निकृष्टान्, अकः करोतु । तेनैव लुङ्, 'मन्त्रे घसवर ' इत्यादिना च्लेलृक् , गुणहल्ङ्यादिलोपौ । संहितायां 'निपातस्य च' इत्यथशब्दस्य दीर्घः । ' व्यन् सपत्ने ' इति सपत्नीव सपत्न इत्युपमायामकारो निपातनात् , 'परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् । द्वितीयाबहुवचनसम्बन्धिनो नकारस्य 'दीर्घादटि समानपादे ' इति रुत्वम् , 'आतोटि नित्यम् ' इति पूर्वस्यानुनासिकत्वं, 'भो भगो अघो' इति यत्वम् । 'अनुनासिकात्परोनुस्वारः' इति केचित् ॥ ___ एवं जुहूपभृतोः उद्हणनिग्रहणे कृत्वा प्राची जुहूं व्यूहतिउद्गाभं च निग्राभं च देवा इहागताः अवीवृधन्वर्धयन्तु । 'नित्यं छन्दसि' इति णौ चङयुपधाया ह्रस्वः ऋकारः। ब्रह्म परिबृढं इष्टसाधनसमर्थ उद्गाभं च निग्राभं च । यहा-परं* वस्तु देवाश्चान्ये वर्धयन्तु इदमुभयमिति ॥
*एवं च प्रतीचीमुपभृतं प्रत्यूहति-अथेति ॥ अथ अनन्तरं इन्द्राग्नी मे मम सपत्नान् विषूचीनान् विष्वग्गतान् व्यस्यतां स्वस्थानादितश्वेतश्च । विगमयताम् । विषु नाना अञ्चतीति ऋत्विगादिना क्विन्प्रत्ययः, 'विभाषाञ्चेरदिस्त्रियाम् ' : इति
*ख-वशं.
For Private And Personal Use Only