________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १३.
भभास्करभाष्योपेता
69
सुचरिते भज मखस्य शिरोसि सं ज्योतिषा ज्योतिरङ्काम् ॥२१॥
__अद्दुत एकविशतिश्च ॥ १२ ॥ 'वाज॑स्य मा प्रसवेनोद्गाशेणोदग्रभीत् । अथा
"जुह्वा ध्रुवां समनक्ति-मखस्येति ॥ निर्वर्तिताघारा जुहूरभिमन्त्र्यते । हे जुहु मखस्य यज्ञस्य शिरः शिर इव उत्तमाङ्गमसि । तस्मात्तव ज्योतिषा घृतेन इदं ध्रौवं ज्योतिघृतं समता संगच्छताम् । व्यत्ययेनात्मनेपदम् । 'शिरो वा एतद्यज्ञस्य । यदाघारः '* इति ब्राह्मणम् ॥
इति द्वादशोनुवाकः.
'जुचौ व्यूहतिवाजस्येत्यनुष्टुब्भ्यां चतुष्पदाभ्याम् ॥ वाजस्य अन्नस्य प्रसवेन उत्पत्तिहेतुना । थाथादिस्वरेणान्तोदात्तत्वम् । उगाभेणानेन जुह्वा ऊर्ध्वग्रहेण मामुदग्रभीत् । 'छन्दसि लुङ्लङ्लिटः' इति लुङ् । उद्गृह्णातु उपरि स्थापयतु । कः ?इन्द्रः, अर्धर्चान्तरे श्रुतत्वात् । 'छन्दस्युत्पूर्वादपीष्यते स्तुगुद्यमननिपंतनयोः' इति ग्रहः घञ्प्रत्ययः, 'हग्रहोर्भश्छन्दसि' इति भत्वम् , स एव स्वरः ॥ __ एवमनेनार्धन दक्षिणेन जुहू मुगृह्य अर्धर्चान्तरेण सव्येनोपभृतं निगृह्णाति-अथानन्तरं निग्राभेण सव्येनोपभृतो नीचैर्ग्रहणेन
*बा. ३-३-७.
-
-
For Private And Personal Use Only