SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 तैत्तिरीयसंहिताः का. १. प्र. १. अध्वरो दिविस्पृशमद्दुतो यज्ञो यज्ञर्पतेरिन्द्रावान्थ्स्वाहां 'बृहद्भाः पाहि माग्ने दुचरितादा मा प्रकृतिस्वरत्वम् । अद्भुतः अकुटिलः निश्चितफलो यज्ञः । स्वाहा स्वयमेवेत्थं सरस्वत्याह । अद्भुत इति 'दु हरेश्छन्दसि' इति हुभावः । होमपक्षे स्वाहेति प्रक्षेपार्थो निपातः ॥ 'तुचमुगृह्णाति—बृहदिति ॥ क्रियाविशेषणम् । भासत इति भाः । 'भ्राजभास' इत्यादिना क्विप् । यस्मादयमग्निरनेनाघारेण भृशं भासते ज्वलति तस्मात्युचमुगृह्णामीति भावः ॥ उदड्डत्याक्रामं जपति-पाहीति द्विपदया गायत्र्या ॥ हे अग्ने नः दुश्चरितात् प्रमादकृतनिन्दिताच्चरितात् कर्मापराधान्मां पाहि यथा कर्मापराधो न भवति तथा कुरु । 'दुनिन्दायां' इति प्रादिसमासः । दुश्शब्देन चरितं विशेष्यते, न तु चरणम् ; तेन गतित्वाभावादव्ययपूर्वपदप्रकृतिस्वरत्वम् । किञ्च–सुचरिते शोभनचरिते कर्मणि मा मां भनं स्थापय । विद्यमानोप्यपराधो गुणत्वेन ग्रहीतव्य इति भावः । 'सुः पूजायाम् ' इति कर्मप्रवचनीयत्वात् यद्यपि 'प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः ' इत्यस्ति, तथापि 'स्वती पूजायाम् ' इति प्रादिसमासः, तेन गतित्वाभावात् — गतिरनन्तरः ' इत्यस्यापवादः, 'सूपमानात् क्तः । इत्युत्तरपदान्तोदात्तत्वम् न प्रवर्तते, तेन पूर्ववदव्ययपूर्वपदप्रकृतिस्वरत्वम् । 'अग्निर्वाव पवित्रं । वृजिनमनृतं दुश्चरितम् '* इत्यादि ब्राह्मणम् ॥ *बा. ३-३-७. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy