SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १२.] भट्टभास्करभाष्योपेता ___67 मा वामवं क्रमिषं वि जिहाथां मा मा सन्तप्तिं लोकं मै लोककृतौ कृणुतं विष्णोस्स्थानम'सीत इन्द्रो अकृणोद्वीयर्याणि समारभ्यो? वृद्धिप्रतिषेधः । तदर्थं युवां विजिहाथां मम मार्गप्रदानार्थ विगच्छतम् । मा मां च मा सन्ताप्तं सन्तप्तं मा काठम् । 'झलो झलि ' इति सिचो लोपः, ' वदव्रज ' इति वृद्धिः । वां लोककृतौ स्थानप्रदौ मम च लोकं स्थानं कृणुतं कुरुतम् । 'धिन्विकृण्व्योरच ' इत्युप्रत्ययः । 'अतो लोपः । ॥ स्थानं कल्पयति—विष्णोरिति ॥ विष्णोर्यज्ञात्मनः स्थानमसि, अतः प्रशस्तस्मिन् स्थाने स्थित्वा यागं निवर्तयामीति भावः ॥ आधारमाघारयति-इत इति ॥ इतः अस्मादाघारात् समारभ्य इन्द्रो वीर्याणि वृत्रवधादीनि अकृणोत् करोति स्म । 'अनुदात्ते च कुधपरे ' इति प्रकृतिभावः । पूर्ववदुप्रत्ययः । किञ्च-अयमाघार उर्ध्वः . उप्रलोकगामी भूत्वा अध्वरः अध्वर्यः* । 'नञ् सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । पूर्ववत्प्रकृतिभावः । हिंसकरहितः केनचिदप्यहिंसितश्च भूत्वा तमिन्द्रं दिविस्टशमकरोत् । 'स्टशोनुदके क्विन् ' ' तत्पुरुषे कृति बहुळम् ' इत्यलुक्, कदुत्तरपदप्रकृतिस्वरः । 'आधारमाघार्यमाणमनु समारभ्य + इत्यादि ब्राह्मणम् । कोस्य विशेषः यत एवमकरोत् ? इत्याह-इन्द्रावान् इन्द्रेण देवतया तद्वान् । 'अन्येषामपि दृश्यते ' इति दीर्घः । यतोयमाघार इन्द्रावान् तस्मादयमेव खलु यज्ञपतेर्यजमानस्य । 'पत्यावैश्वर्ये' इति पूर्वपद*ग-अध्वकर्तकः. [अध्वर्तकः?] बा. ३-३-७. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy