SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 तैत्तिरीयसंहिता का. १.प्र . १. 'भुवनमसि वि प्रथस्वाग्ने यष्टरिदं नमः । "जुह्यग्निस्त्वा ह्वयति देवय॒ज्याया 'उपभृदेहि दे॒वस्त्वा सविता ह्वयति देवय॒ज्याया 'अनाविष्णू अग्रेण जुहूप्रभृतौ* प्राञ्चमञ्जलिं करोति-भुवनमिति यजुरादिकयैकपदया गायत्र्या ॥ हे अग्ने यष्टः यागस्य निर्वर्तक । 'अग्नि देवानां यष्टा + इति ब्राह्मणम् । पादादित्वादग्न इति न निहन्यते । ‘आमन्त्रितं पूर्वमविद्यमानवत् ' इति तस्याविद्यमानत्वात् यष्टरित्यपि न निहन्यते । द्वयोरपि षाष्ठिकमाद्युदात्तत्वम् । त्वं भुवनमसि, त्वदायत्तत्वात्समस्तभूतनातस्य । तस्मात् विप्रथस्व विस्तीर्णो भव । तुभ्यमिदं नमः, अयमञ्जलिस्त्वां प्रीणयितुं क्रियते ॥ दक्षिणेन जुहूमादत्ते-जुह्विति ॥ हे जुहु एहि अस्मद्धस्तमागच्छ । यतोग्निस्त्वां देवयज्यायै देवयागार्थमाह्वयति । 'छन्दसि निष्टर्य' इत्यत्र देवयज्याशब्दो यप्रत्ययान्तो निपातितः । 'आग्नेयी वै जुहू: + इत्यादि ब्राह्मणम् ॥ सव्येनोपभृतमादत्ते—उपभृदिति ॥ हे उपभृत् एहि । यतस्सर्वस्य प्रेरकस्सविता देवयज्यायै आह्वयति । 'सावित्र्युपभृत् + इत्यादि ब्राह्मणम् ॥ 'अत्याक्रामं जपति-अनाविष्णू इति ॥ अग्निराहवनीयः, विष्णुर्यज्ञः, यज्ञश्चान्तर्वेदि सुचामग्रत आस्ते ; तावाह हे अनाविष्णू युवामहं मावक्रमिषम् अवक्रम्य मा गाम् । 'नेटि' इत्यादिना *ख. ग-जुहमुपभृतं वा. बा. ३-३-७. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy