________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
64
तैत्तिरीयसंहिता
का. १. प्र. १.
समिधीमाग्ने बृहन्तमध्वरे "विशो यन्त्रे स्थो "वसूना५ रुद्राामादित्याना५ सदसि सीद "जुहू
"विधृती सादयति-विश इति ॥ विशः प्रजायाः यन्त्रे यमने धारिके स्थः । 'गुधृविपचि ' इत्यादिना यमेस्त्रप्रत्ययः । 'सावेकाचः ' इति विशः परस्याः षष्ट्या उदात्तत्वम् ।।
"तयोः प्रस्तरं सादयति-वसूनामिति ॥ वस्वादयः प्रसिद्धा देवताः यज्ञभागिन्यः । तासां सदस्त्वेन विधृत्योः स्तुतिः ॥ ___तत्र जुहूं सादयति-जुहूरिति ॥ असि घृताचीत्यादिकं वक्ष्यमाणं जुह्वादिभिः प्रत्येकमभिसम्बध्यते । हूयतेऽनयेति जुहूः । 'द्युतिगमिजुहोतीनां वे च' इति क्विप् , 'जुहोतेर्दीर्घश्च ' इति दीर्घोनुवर्तते । जुहूस्त्वमसि । त्वया खलु हूयते । पुनश्च विशेष्यते-घृताची त्वम्, घृतमञ्चति गच्छति धारकत्वेनेति घृताची। ऋत्विगादिना क्विप् । अनुनासिकलोपे 'अचः ' इत्यकारलोपे 'चौ' इति दीर्घः । सा त्वं प्रियेण नाना घृतसम्बन्धेन सर्वस्य प्रीतिहेतुना घृताचीति नाम्ना उपलक्षितासि । ' तासामेतदेव प्रियं नाम । यद्धृताची '+ इत्यादि ब्राह्मणम् । ईदृशेन नाम्ना प्रिये सदसि प्रस्तराख्येस्मिन् सदने सीद । 'यजमानो वै प्रस्तरः । इति यजमानत्वसंस्तवान्नाममात्रेण प्रस्तरस्य प्रियत्वम् ॥
* तिगमि' प्रभृति 'अनुवर्तते' इत्यन्तस्य वाक्यस्य स्थाने, क. ग. पुस्तकयोः
एवं पाठः-'जुहोतेर्दीर्घश्च इति क्विप्रत्ययः ; द्वेच इति तत्रानुवर्तते' ब्रिा. ३-३-६.
For Private And Personal Use Only