SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भभास्करभाष्योपेता 63 mmmmmmm navraan परिधिरिड इंडित"स्सूर्यस्त्वा पुरस्तात्पातु कस्याश्चिदभिशस्त्या "वीतिोत्रं त्वा कवे द्युमन्त५ "सूर्येण पुरस्तात् परिधानकार्य करोति-सूर्य इति ॥ सूर्य एव त्वां पुरस्तात् पातु रक्षतु । कस्मात् ?--कस्याश्चित् यतः कुतश्चित् अभिशस्त्याः अपरिमितायाः अभिशापाद्रक्षःप्रभृतिप्रयुतात् । शसु हिंसायाम् , 'तितुत्रतथसि' इतीट्प्रतिषेधः, 'तादौ चनितिकृत्यतौ' इति गतेः प्रकृतिस्वरत्वम् , 'निपाता आधुदात्ताः' ' उपसर्गाश्चाभिवर्जम् । इत्यभिशब्दोन्तोदात्तः । एवं कस्याश्चिदित्यत्र 'सावेकाचः । इति प्राप्तं विभक्त्युदात्तत्वं 'न गोश्वन् ' इति प्रतिषिध्यते ॥ "उर्चे समिधावादधाति-वीतिहोत्रमिति त्रिपदया गायत्र्या। वीतिहोत्रं इष्टस्तोत्रम् । वीतेः कान्तिकर्मणो 'मन्त्रे वृष ' इत्यादिना कर्मणि क्तिन्प्रत्यय उदात्तः । वेतव्या कमितव्या होत्रा वाक् स्तोत्ररूपा होतृव्यापारो वा यस्य तं त्वा । हे कवे मेधाविन् । अग्ने द्युमन्तं दीप्तिमन्तम् । 'द्वस्वनुड्भ्यां मतुप् ' इति मतुप उदात्तत्वम् । बृहन्तं महान्तं समिधीमहि प्रागेव दीप्तिमन्तं सन्तं अनया समिधा सम्यग्दीपयामः । इन्धेलिङि, 'बहुलं छन्दसि ' इति विकरणस्य लुक् । यहा-'छन्दस्युभयथा ' इत्यार्धधातुकत्वात् विकरणाप्रसङ्गः । सार्वधातुकत्वेन ङिवादनुनासिकलोपः । अध्वरे अध्वरार्थम् । निमित्तात्सप्तमी । वृहूर्छने, हुर्छन कौटिल्यम् । ध्वरन्तीति ध्वराः रक्षःप्रभृतयः । पचाद्यच् । ते यत्र न सन्ति सः अध्वरः । बहुव्रीही ' नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । तादृशाय यज्ञाय त्वां समिधीमहि ॥ . For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy