SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 तैत्तिरीयसंहिता [का. १. प्र. १. वसुर्विश्वस्मादीषतो यज॑मानस्य परिधिरिड ईडित 'इन्द्रस्य बाहुरसि ॥ १९ ॥ दक्षिणो यजमानस्य परिधिरिड इंडितो "मित्रावरुणौ त्वोतरतः परि धत्तां ध्रुवेण धर्मणा यजमानस्य दीर्घत्वम् । 'बहुव्रीहौ विश्वं संज्ञायाम् ' इतिं पूर्वपदान्तोदात्तत्वम् । विश्वावसुर्नाम गन्धर्वः, स शत्रु*निग्रहसमर्थः, स एव त्वमसीति परिधेः स्तुतिः । यस्मादेवं तस्माद्विश्वस्मादीषतः हिंसकात् राक्षसादेर्जनात् । ईषगतिहिंसादानेषु, अनुदात्तेत् , भौवादिकः, व्यत्ययेन शतृप्रत्ययः, 'अदुपदेशात् ' इति लसार्वधातुकानुदात्तत्वेन धातोरेव स्वरः । यजमानस्य परिधिः परितस्सर्वतो धाता रक्षकस्त्वमसि । 'उपसर्गे घोः किः' इति किप्रत्यये कदुत्तरपदप्रकृतिस्वरत्वम् । किञ्च-इडन्नं पशवश्च तद्वान् इडः, तत्साधनत्वात् । अर्श आदित्वादच् । अत एव सर्वैरीडितस्स्तुतः ॥ - दक्षिणं परिदधाति--इन्द्रस्येति ॥ इन्द्रस्य यो दक्षिणो बाहुः महावीर्यः, स एव त्वमसीति दक्षिणस्य परिधेस्स्तुतिः । ' स्वाङ्गाख्यायामादिर्वा ' इति दक्षिणशब्द आधुदात्तः । गतमन्यत् ॥ - 1उत्तरं परिदधाति-मित्रावरुणाविति ॥ ध्रुवेण अचलेन नित्येन धर्मणा कर्मणा मित्रावरुणावेव च त्वामुत्तरतः परिधत्ताम् । समानमन्यत् । 'देवताद्वन्द्वे च ' इति मित्रावरुणशब्दे पूर्वोत्तरपदयोः प्रकृतिस्वरत्वम् ॥ *ग-सर्वशत्रु. सं. १-१-११ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy