SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ११.] भभास्करभाव्योपेता 61 पृथिवीं गच्छत विष्णोस्तूपो स्यूर्णीम्रदसन्त्वा स्तृणामि स्वासस्थं देवेभ्यो गन्धर्वोसि विश्वा 'बर्हिस्पृणाति-ऊर्णाम्रदसमिति ॥ ऊर्णा अविसूत्रं, तद्वन्मृदुः ऊर्णाम्रदाः । म्रद मर्दने, घटादिः । यस्मात् 'प्रथिम्रदि' इत्यादिना उर्विधीयते तस्मादसुन् । 'उपमानानि सामान्यवचनैः' इति तत्पुरुषः । 'तत्पुरुषे तुल्यार्थे ' इत्यादिना उपमानपूर्वपदप्रकृतिस्वरत्वम् । 'अर्णो तेश्च ' इति डप्रत्ययान्तः ऊर्णाशब्दः, वृषादित्वादाद्युदात्तत्वम् । तादृशं त्वां स्तृणामि । पुनश्च विशेष्यते-स्वासस्थं, शोभनास्सुखवन्त आसितारः स्थातारश्च यस्मिन् स स्वासस्थः; आसितारः आसाः । आस उपवेशने, पचाद्यच् । स्थातारः स्थाः । विच* । समाहारद्वन्द्वः । आसस्थं शोभनमासस्थं यस्मिन्निति स्वासस्थम् । 'नञ् सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा-आसनमासस्थम् । 'दृशसददमितमिभ्यश्च इति चकारस्यानुक्तसमुच्चयार्थत्वादासेरथप्रत्ययः । बहुलवचनात् सकारश्च मध्यम उपजायते । शोभनमासस्थं यस्मिन्निति बहुव्रीहिः । स एव स्वरः । देवेभ्य इति षष्ठ्यर्थे चतुर्थी । देवानां स्वासस्थम् । यद्वास्वासस्थं त्वां देवार्थ स्तृणामि । तादर्थे चतुर्थी ॥ मध्यमं परिधिं परिदधाति-गन्धर्व इति ॥ विश्वानि वसून्यस्मिन्निति बहुव्रीहौ 'विश्वस्य वसुराटोः' इति पूर्वपदस्य *क. ग-किप. अियं ख. पुस्तकपाठः. ग. पुस्तके तु “ दृशसदमिवमिभ्यश्च" इति. इदं सूत्र उणादिषु अन्यत्र वा नोपलभ्यते. उज्ज्वलदत्तीयायां उणादिसूत्रवृत्तौ तु अथप्रत्ययप्रकरणे (उ. ३-११४) बाहुलकात् दृशमिदमिभ्यश्च इत्युक्त्वा 'दरथः' इत्यादिकमुदाहृतम्. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy