________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
60
तैत्तिरीयसंहिता
[का. १.प्र . १.
स्वाहाँ 'दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा 'स्वधा पितृभ्य ऊर्भाव बर्हिषय ऊर्जा
'अन्तर्वेधूर्वाग्रं बहिस्स्थापयित्वा प्रोक्षति-दिव इति ॥ अग्रमध्यमूलेषु क्रमेण प्रोक्षणम् । सर्वत्र प्रोक्षामीति शेषः । यागनिर्वृत्तिद्वारेण द्युप्रभृतीनां लोकानां धारणार्थ प्रोक्षणं भवति । 'उडिदम् ' इत्यादिना दिव इति विभक्तेरुदात्तत्वम् । पृथिव्या इत्यादौ 'उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् ॥
दक्षिणस्याश्श्रोणेरुत्तरस्याः प्रोक्षणीशेषं निनयति-स्वधेति ।। 'मासा वै पितरो बर्हिषदः '* इत्यादिब्राह्मणप्रसिद्धा ये मासनामानः पितरो बर्हिष्यागत्य सीदन्ति, तेभ्यस्स्वधा अन्नम् । कीदृशं ? ऊ बलप्राणनयोरुद्दीपकं भवेति । समुदायापेक्षमेकवचनम् , अन्नापेक्षं वा । किञ्च-उर्जा रसेन सह पृथिवीं गच्छत प्रविशत । अवयवापेक्षं बहुवचनम् । बर्हिषद इति एषोदरादित्वात्सलोपः । ‘सत्सूद्विष' इत्यादिना क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ऊर्जेति 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । 'आतोऽनुपसर्गे कः' इति कप्रत्ययान्तः स्वधाशब्दः, थाथादिस्वरेणान्तोदात्तः ॥ __ प्रस्तरं गृह्णाति-विष्णोरिति ॥ विष्णुः व्यापको यज्ञः । 'यज्ञो वै विष्णुः '* इति ब्राह्मणम् । तस्य स्तूपस्सङ्घातोसि । त्वदात्मना संहत इति स्तुतिः । 'स्त्यस्सम्प्रसारणमुच्च ' इति पप्रत्ययः, उकारश्चान्तादेशः, ' दीर्घश्च' इति तत्रानुवर्तते, वृषादित्वादाद्युदात्तत्वम् ॥
*बा. ३.३-६.
For Private And Personal Use Only