________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ११.]
भभास्करभाष्योपैता
59
'कृष्णोस्याखरेष्ठोऽग्नये त्वा स्वाहा वेदिरसि बर्हिर्षे त्वा स्वाहाँ बर्हिरसि स्रुग्भ्यस्त्वा
'इध्मं प्रोक्षति-कृष्ण इति ॥ कृष्णः कृष्णमृगः । 'कृष्णस्य मृगाख्या चेत् ' इति वचनान्मृगाख्यायामाद्युदात्तत्वम् । आखरेष्ठः आखनति समन्ताद्भुवं मूलैरवदारयतीत्याखरो वनस्पतिः । 'खनतेर्डरो वक्तव्यः' इति खनतेर्डरप्रत्ययः । तत्र तिष्ठतीत्याखरेष्ठः । 'सुपि स्थः' इति कः, तत्पुरुषे कृति बहुळम् ' इत्यलुक् , सुषामादित्वात् षत्वम्, थाथादिसूत्रेणोत्तरपदान्तोदात्तत्वम् । 'अग्निदेवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत् '* इत्यादि ब्राह्मणोक्तो योनिः स एव त्वमसीति तदाधारभूतध्मस्तुतिः । एवंभूतं त्वामिध्ममग्नये अग्न्यर्थं प्रोक्षामीति शेषः । एवं कर्तव्यमिति स्वयमेव सरस्वत्याह । विभक्तयन्तसमुदायात्मा निपातः स्वाहेति । संस्कारविशेषानवधारणात् नावगृह्यते ॥
वेदिं प्रोक्षति-वेदिरिति ॥ वेदिः वेदयित्री हविषामाधारत्वेन प्रकाशयित्र्यसि । 'इन् सर्वधातुभ्यः' इति विदेरिन्प्रत्ययः । तां तादृशीं त्वां बहिषे बर्हिस्तरणार्थं प्रोक्षामि । एतच्च स्वयमेव वागाह । 'प्रजा वै बर्हिः '* इत्यादि ब्राह्मणम् ॥
बर्हिः प्रोक्षति-बहिरिति ॥ बृहत् पर्याप्तमसि । 'बृहेर्नलोपश्च' इतीसिप्रत्ययः । तादृशं त्वां स्त्रुग्भ्यः सुगर्थं त्रुचां धारणार्थ प्रोक्षामि । इत्याह स्वयं सरस्वती । 'सावेकाचः । इति भ्यस उदात्तत्वम् । 'प्रजा वै बहिः । यजमानस्युचः '* इत्यादि ब्राह्मणम् ॥
*बा. ३.३.६.
For Private And Personal Use Only