________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
58
तैत्तिरीयसंहिता
का. १. प्र. १.
च्छिद्रेण पवित्रैण वसोस्सूर्यस्य रश्मिभिशुक्रत्वो शुक्रायां धाम्नेधाम्ने देवेभ्यो यर्जुषेयजुषे गृह्णामि ज्योतिस्त्वा ज्योति प्यर्चिस्त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यर्जुषेयजुषे गृह्णामि ॥ १८॥ उप नी रश्मिभिश्शुक्र५ षोडश च ॥ १० ॥
__ "जुह्वामाज्यं गृह्णाति-शुक्रमिति ॥ शुक्रं शुद्धं त्वां शुक्रायां शुद्धायां जुह्वां गृह्णामि । शिष्टं व्याख्यातम् । आधारार्थत्वात् , प्रयानार्थत्वाच्च ‘धाम्नेधाम्ने' इत्याद्युपपद्यते । एवमुपभृद्धवयोरपि वेदितव्यम् ॥
1 उपभृति गृह्णाति-ज्योतिरिति ॥ ज्योतिः दीप्तं त्वां, ज्योतिषि दीप्तायामुपभृति गृह्णामि । ‘धाम्नेधाम्ने' इत्यनुषज्यते ॥ ___ ध्रुवायां गृह्णाति-अर्चिरिति ॥ अर्चिषो हेतुत्वादर्चिश्शब्देनोच्यते । तादृशं त्वां अर्चिषि देवानामर्चनसाधने ध्रुवायां गृह्णामि । शिष्टं स्पष्टम्* ॥
इति दशमोनुवाकः.
*सं. १-१-१015
For Private And Personal Use Only