SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १०.] भट्टभास्करभाव्योपेता 53 non नासौमनसं प्रजा५ सौभाग्यं तनूम् । अग्नेरनुव्रता भूत्वा सन्नह्ये सुकृताय कम् । ‘सुप्रजसंस्त्वा वय५ सुपत्नीरुपं ॥ १६ ॥ सेदिम। वरत्वम् । किं ? सौमनसं शोभनं मनस्सौमनसम् । 'प्रज्ञादिभ्यश्च ' इति मनश्शब्दात्स्वार्थे विधीयमानोण्प्रत्ययस्तदन्तादपि भवति, छन्दसि दृष्टानुविधानात् । प्रजामपत्यं । कृदुत्तरपदप्रकृतिस्वरत्वम् । सौभाग्यं भर्तुरिष्टत्वम् । 'सुभग मन्त्रे' इति विधीयमानस्यौद्गात्रादिलक्षणस्याञोऽभावे प्यव क्रियते । जित्वादाद्युदात्तत्वम् , ' हृद्गसिन्ध्वन्ते पूर्वपदस्य च ' इत्युभयपदवृद्धिः । तनूं शरीरं अविनाशां । 'कृषिचमितनि ' इत्यादिना उप्रत्ययः । अग्नेः परिचरणलक्षणानि यानि व्रतानि तैरनुगता अनुव्रता । ' अवादयः क्रुष्टाद्यर्थे तृतीयया ' इति तत्पुरुषः । ' तत्पुरुषे तुल्यार्थ' इत्यादिनाऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । सुकृताय शोभनाय कर्मणे सन्नो बध्ये । शोभनं कर्म सुकृतम् । भावे निष्ठा । 'सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । कं सुखं यथा भवति तथा बध्ये । कर्मणि लकारः । यद्वा-कमात्मानं संनो बध्नामि । नह्यतिः स्वरितेत् । 'एतद्वै पत्नियै व्रतोपनयनम् '* इत्यादि ब्राह्मणम् ॥ 'पत्नी गार्हपत्यमुपसीदति-सुप्रजस इति चतुष्पदयानुष्टुभा ॥ सुप्रजसः शोभनापत्याः । 'नित्यमसिच्प्रनामेधयोः ' इति समासान्तः । सुपत्नीः सुपत्न्यः । ‘वा छन्दसि ' इति पूर्वसवर्णदीर्घः, शोभनः पतिर्यासामिति बहुव्रीही 'विभाषा सपूर्वस्य ' इति नका *ब्रा. ३-३-३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy