________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
54
'तैत्तिरीयसंहिता
का. १. प्र. १.
अग्ने सपनदम्भनमर्दब्धासो अभ्यम् । इमं विष्यामि वरुणस्य पाशं यमबंधीत सविता सुकेतः । धातुश्च योनौ सुकृतस्य लोके रोन्तादेशः, 'ऋन्नेभ्यो ङीप् ', ' आद्युदात्तं यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् पतिशब्दस्याद्युदात्तत्वात् । ईदृश्यो वयं हे अग्ने त्वामुपसेदिम उपसीदामः । 'छन्दसि लुङ्ललिटः ' इति वर्तमाने लिङ् । कीदृशं ?—सपनदम्भनं शत्रूणां विनाशसाधनम् । करणे ल्युटि, कदुत्तरपदप्रकृतिस्वरत्वम् । यस्मादीदृशस्त्वं तस्मात् त्वामुपसीदामः । अदब्धासः त्वत्प्रसादेन केनाप्यहिंसिताः । 'आजसेरसुक्' । अदाभ्यं केन चिदप्यनभिभवनीयं त्वाम् । दभिः प्रकृत्यन्तरमस्तीति केचिदाहुः । 'दभेश्चेति वक्तव्यम् ' इति ण्यत् , उभयत्राप्यव्ययपूर्वपदप्रकृतिस्वरत्वम् ।।
श्योकं पत्नी विमुञ्चति—इममिति त्रिष्टुभा चतुष्पदया ॥ सन्नहनप्रसङ्गादिहानातोप्ययं मन्त्रः सामर्थ्यादुकृप्यते । वृणोति छादयतीति वरुणं वस्त्रम् । 'कवृतृदारिभ्य उनन् '* इत्युनन्प्रत्ययः । तस्य धारणहेतुर्यः पाशस्तमिमं योक्कं विष्यामि प्रमुञ्चामि । पोन्तकर्मणि, 'उपसर्गात्सुनोति ' इत्यादिना षत्वम् । कीदृशं पाशं?सविता सर्वस्य प्रेरकः यमबध्नीत बद्धवान् । बध्नातेरात्मनेपदम् । सुकेतः सुज्ञानः । कितज्ञाने, घञ् , ' आद्युदात्तं यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । यद्वा-अनेन योऋविमोकेन मम वरुणपाशं तमोरूपं ईश्वरेण बद्धं विमुञ्चामि । किञ्च-धातुः प्रजापतेरपि योनौ स्थाने सुझतस्य लोके शोभनकर्मसम्बन्धिनि *उज्ज्वलदत्तादिभिस्तु ‘कृवृदारिभ्य उनन् ' हीत पठित्वा 'बोरश्च लोवा' इत्यु
त्तरसूत्रेणैव तरुणमिति साधितम्.
For Private And Personal Use Only