________________
Shri Mahavir Jain Aradhana Kendra
__www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6
तैत्तिरीयसंहिता
का. १. प्र. १.
जिष्ठेन तेजसा निष्टंपामि गोष्ठं मा निमृक्षं वाजिनं त्वा सपत्नसाह५ संमामि वाचं प्राणं 'चक्षुश्श्रोत्र 'प्र॒जां योनि मा निर्मूक्षं वाजिनी त्वा सपत्नसाही समाजाशासा__ खुवं सम्मार्टि-गोष्ठमिति ॥ गावस्तिष्ठन्ति यत्र स गोष्ठो देशः । 'घअर्थे कविधानम् ' इति कः, थाथादिसूत्रेणान्तोदात्तत्वम्, 'अम्बाम्ब ' इत्यादिना पत्यम् । यस्मादहं गवां स्थानं मा निर्मुक्षम् मा विनीनशं इति प्रार्थयसे, तस्माद्वाजिनमन्नवन्तं अन्नसाधनभूतं सपत्नसाहं सपत्नानां शत्रूणां अभिभवितारं त्वां सम्मामि शोधयामि । नुवादिसम्मार्गाभावे यागाभावेन वृष्टयभावाद्गवादयो विनश्येयुरिति भावः । निर्मक्षमिति मृशतेलुङि ‘शल इगुपधादनिटः क्सः ' इति च्लेः क्सादेशः । सपत्नसाहमिति कर्मण्यणन्तोन्तोदात्तः ॥
जुहूं सम्माटि-वाचमिति ॥ अत्र मा निर्मक्षमित्यादि वक्ष्यमाणमनुषज्यते । थाथादिस्वरेण प्राणशब्दोन्तोदात्तः ॥ 'उपभृतं सम्माष्टि-चक्षुरिति ॥ पूर्ववद्वक्ष्यमाणस्यानुषङ्गः ॥
ध्रुवां सम्मार्टि-प्रजामिति ॥ सपत्नसाहीमिति उदात्तनिवृत्तिखरेण डीप उदात्तत्वम् ॥
पत्नी योक्रेण सन्नाति-आशासानेति चतुष्पदयानुष्टुभा ॥ सन्नह्ये इत्युत्तमपुरुषश्रवणात्पत्नी मन्त्रं ब्रवीति । आशासाना प्रार्थयमाना । अनुदात्तेवात् लसार्वधातुकानुदात्तत्वम् , कदुत्तरपदप्रकृति
*ख. ग-शोधयानि,
For Private And Personal Use Only