SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ९.] भभास्करभाष्योपेता 'प्रत्युष्ट५ रक्षः प्रत्युष्टा अरांतयोऽग्नेर्वस्तेस्वरत्वम् । ईदृशीं यां त्वां स्वधाभिरन्नैरोषधिविकारैस्सहितां उदादाय उत्क्षिप्य चन्द्रमसि ओषधीशे ऐरयन् स्थापितवन्तः यज्वानः । हे विरप्शिन, वेद्यास्संबोधनम् । विविधं रपणं शब्दनं विरप् , उपांशुत्वादिभेदेन मन्त्राणामुच्चारणम् । तद्वन्तो विरप्शाः ऋत्विज उच्यन्ते । लोमादित्वाच्छः । तद्वति विरप्शिन् । छान्दसः स्त्रीप्रत्ययाभावः । तां तादृशीं त्वां चन्द्रमसि स्थापितां देवयजनीभूतामनुदृश्य अन्वीक्ष्य सैवेयमस्माभिसंस्कृता वेदिरिति विज्ञाय, धीरासः प्रज्ञावन्तो यजमाना यजन्ते । 'आजसेरसुक्' । तस्माद्वयमपि तथैव विज्ञाय यजामः । यहा–हे. विरप्शिन् वेदे, क्रूरस्याररुनानोऽसुरस्य विसर्पणात्प्रागेव यां त्वामुदादाय चन्द्रमसि स्थिताभिस्स्वधाभिः अमृतैर्हेतुभिः जीरदानुभूतां* पृथिवीभैरयन् प्रापयन्, तां तथाविधां त्वां अनुदृश्य धीरा यजन्ते । तस्माद्वयमपि तादृशीं त्वामवगम्य यजामः इति । दासीभारादित्वाच्चन्द्रमसीति पदे पूर्वपदप्रकृतिस्वरत्वम् ' । 'यदेवास्या अमेध्यम् । इत्यादि. ब्राह्मणम् ॥ इति प्रथमे नवमोनुवाकः. 'गार्हपत्ये खुवादीन् प्रतितपति-प्रत्युष्टमिति ॥ व्याख्यातम् ।। निष्ठेन तेजितृतमेन तीक्ष्णतमेनाग्नेस्तेजसा वो युष्मान् निष्टपामि निष्कृष्य दोषेभ्यस्तपामि । 'निसस्तपतावनासेवने ' इति षत्वम् । तेमितृशब्दात् 'तुश्छन्दसि' इतीष्ठनि 'तुरिष्ठेमेयस्सु' इति तृशब्दलोपः ॥ *ग-दानुो. बा. ३.२.९. सं. १-१-२० For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy