SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 तैत्तिरीयसंहिता का. १. प्र. १. rammmmmmmm त्वा नीषोमाभ्यां 'मखस्य शिरोसि घोसि विश्वायुरुरु प्रथस्वोरु ते यज्ञप॑तिः प्रथतां "त्वच गृह्णी"प्वान्तरित रक्षोऽन्तरिता अरा अग्नीषोमाभ्यामित्यत्र त्वेत्यनुषज्यते । पूर्ववच्छेषः । अभिमर्शन चान्यस्माद्व्यावृत्तिः क्रियते ॥ 'पिण्डं करोति–मखस्य शिरोसीति ॥ यज्ञो वै मखः, तस्य शिरः मुख्यमङ्गमसि , प्राधान्यात् ॥ अधिश्रयति-धर्म इति ॥ धर्मः प्रवर्दी आदित्यो वा, स एवासि , उष्णत्वात् । विश्वमायुर्येन क्रियत इति विश्वायुः, विश्वायुर्नामासि । 'बहुव्रीहौ विश्वं संज्ञायां ' इति पूर्वपदान्तोदात्तत्वम् ॥ प्रथयति-उर्विति ॥ उरु यथा भवति तथा प्रथस्व । यज्ञपतिः यजमानः अनेन तवोरुप्रथनेन उरु प्रथतां पश्वादिभिः । 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् ॥ 1°क्षणीकरोति-त्वचमिति ॥ त्वचं गृह्णीष्व त्वचा अतिश्लक्ष्णतनूभव । 'सर्वमेवैन सतनुम् ' *इत्यादि ब्राह्मणम् ॥ ___ "पर्यग्नि करोति-अन्तरितमिति यजुरादिकयैकपदया गायत्र्या ॥ अन्तरितं तिरोहितमपनीतं । 'अन्तरपरिग्रहे' इति गतिसंज्ञिकत्वात् ‘गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । व्याख्यातामन्यत् । 'धर्मो वा एषोशान्तः' *इत्यादि ब्राह्मणम् ॥ *बा.३.२-८. सिं.१-१-२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy