SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] भट्टभास्करभाष्योपेता 43 तयो "देवस्त्वा सविता श्रेपयतु वर्षिष्ठे अधि नाकेमिस्तै तनुवं माति धागने __12श्रपयति-देव इति ॥ देवस्सविता सर्वस्य प्रेरकः त्वां श्रपयतु पक्कं करोतु । किमर्थं ?-वर्षिष्ठे वृद्धतमे नाके सुखरूपे स्वर्गे निमिते । 'निमि तात्कर्मयोगे' इति सप्तमी । नाके स्वर्गार्थ त्वां अपयतु । सप्तम्यर्थमेवाधिशब्दो द्योतयति । 'अधिपरी अनर्थको' इति कर्मप्रवचनीयसंज्ञा । यहा–देवस्सविता त्वां श्रपयतु । कीदृशं ? --वर्षिष्ठे अधिनाके, योयं दिवि नाको नामाग्निः वृद्धतमो रक्षसां हन्ता तस्मिन्नधि तेनेश्वरेण रक्ष्यमाणं त्वां श्रपयतु । 'अधिरीश्वरे' इति कर्मप्रवचनीयत्वम् । 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ' इति स्वामिविशेष द्योत्ये स्वामिविशेषात्सप्तमी, यथा ‘अधिब्रह्मदत्ते पञ्चालः' इति । 'पुरोडाशं वा अधिश्रितम् '* इत्यादि ब्राह्मणम् । किञ्च-~~-अग्निस्ते तनुवं मातिधाक् कशावस्थामतीत्य मा धाक्षीत् । दहेर्लुङि, च्लेस्सिचि, हलन्तलक्षणा वृद्धिः, 'बहुळं छन्दसि' इतीडभावः, हल्ङयादिलोपसंयोगान्तलोपौ, घत्वचत्वंभषभावाः । ' तन्वादीनां छन्दसि बहुळम् ' इति तनोतेरुवङादेशः ॥ . ___ गार्हपत्यमभिमन्त्रयते-अन इति ॥ व्याख्यातम् + ॥ "भस्मनाभिवासयतिसमिति ॥ ब्रह्मणा बृहता अनेन भस्मना संप्टच्यस्व संप्टक्तो भव हे पुरोडाश । टचेः कर्मणि लकारः । 'मस्तिष्को वै पुरोडाशः '* इत्यादि ब्राह्मणम् । 'पशोर्वै प्रतिमा पुरोडाशः '* इति च ब्राह्मणम् ॥ . *बा. ३-२-८. सं. १-१-४.17 For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy