________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैत्तिरीयसंहिता .
का. १. प्र. १.
९
-
'सं पामि "समापो अद्रिरेग्मत समोषधयो रसैन स५ रेवतीर्जगतीभर्मधुमतीर्मधुम
'पिष्टानि संवपति-समिति ॥ समित्येकीभावे ; सह प्रक्षिपामि । सावित्रशेषश्चायम् । 'अग्नये जुष्टम् ' इत्यपि लभ्यते ॥
'प्रणीता मदन्तीगनीयमानाः प्रतिमन्त्रयते—समाप इति वस्वष्टवस्वादित्यपदया उपरिष्टाद्वृहत्या ॥ आपः प्रणीतालक्षणाः, अद्भिर्मदन्तीलक्षणाभिः, समग्मत सङ्गच्छन्ताम् । 'उडिदम्' इत्यादिना असर्वनामस्थानविभक्तरुदा तत्वम् । 'छन्दसि लुङ्किटः' इति लङ् , 'समो गम्यच्छिभ्याम् ' इत्यात्मनेपदम्, 'बहुळं छन्दसि' इति शपो लुक् , 'आत्मनेपदेष्वनतः' इत्यदादेशः। यद्वा-तेनैव लुङ, 'मन्त्रे घस' इत्यादिना च्लेलृक् , 'गमहन' इत्युपधालोपः । किञ्च, ओषधयः पिष्टलक्षणाः रसेनानीयमानेन द्विप्रकारेण रसेन जलेन सङ्गच्छन्ताम् । ओषा धीयन्त आस्वित्योषधयः । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् , ओषशब्दो घनन्त आद्युदात्तः, , 'कर्मण्यधिकरणे च' इति दधातेः किप्रत्ययः । एवं परोक्षवदभिधायेदानी प्रत्यक्षवदुच्यते-रेवतीः रेवत्यः धनवत्यः सवंधनकारणत्वात् । 'रयेर्मतौ बहुलम् ' इति सम्प्रसारणम् , ' वा छन्दसि ' इति पूर्वसवर्णदीर्घत्वम् , 'हस्वनुड्भ्यां मतुप ' इत्यत्र 'रेशब्दाच्चोपसङ्ख्यानम् ' इति मतुप उदात्तत्वं , वत्वं च । ईदृश्यो यूयं जगतीभिस्संसृज्यध्वं संसृष्टा भवत । कर्मणि लकारः । जगतीभिः जङ्गमस्वभावाभिः । 'वर्तमाने प्रषगृहन्महजगच्छतृवत् ' इति गमेरतिप्रत्ययः, मकारलोपः , द्विर्वचनं च निपात्यते , 'उगितश्च ' इति डीप् , ' अभ्यस्तानामादिः' इत्याधु
For Private And Personal Use Only