________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु..]
भभास्करभाष्योपेता
39
पैसा तप्यध्वं "यानि धर्म कपालान्युपचिन्वन्ति वेधसः । पूष्णस्तान्यपि व्रत इन्द्रवायू विमुञ्चताम् ॥ ११ ॥
चक्षुरष्टाचत्वारिशच ॥ ७ ॥
1"कपालानि विमुञ्चति-यानीति ॥ इष्टिसंस्थानकालभाविनोपि विमोकमन्त्रस्य प्रासङ्गिकमिहानानम् । इयं चतुष्पदानुष्टुप् ; यणादेशाकरणेन प्रथमतृतीयौ पूरणीयौ । विधायको वेधाः अध्वर्युः । विध विधाने , असुन्प्रत्ययः , उचादित्वादन्तोदात्तः , व्यत्ययेन बहुवचनम्, एको ह्यध्वर्युरुपदधाति । यानि कपालानि धर्म अङ्गारे वेधसः उपचिन्वन्ति उपहितवन्तः । वर्तमानसामीप्पे लट् । तानि कपालानि इन्द्रवायू विमुञ्चताम् ; ध्रुवमसीत्यादिमन्त्रैरुपहितानां तावेव विमोचकाविति भावः । 'नोत्तरपदेनुदात्तादौ' इत्युभयपदप्रकृतिस्वरत्वे निषिद्धे समासान्तोदात्तत्वम् । किमुपधानं विमोकार्थं ? इत्यत आह-पूष्णः पोषकस्याग्नेः । उदात्तनिवृतिस्वरेण विभक्तेरुदात्तत्वम् । तस्य व्रते हविश्पणलक्षणे कर्मणि अपीते समाप्ते इदानीं विमुञ्चतामिति । 'सं ते मनसा मनः '* इत्यादिवदपीत्युपसर्गश्रुतेर्योग्यं क्रयापदमध्यातियते । उपचिन्वन्तीत्यत्र 'सतिशिष्टोपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते ' इति वचनाल्लसार्वधातुकाद्युदात्तत्वम् । 'चतुष्पदयर्चा '+ इत्यादि ब्राह्मणम् ॥
इति सप्तमोनुवाकः.
*सं.१.३.१०
बा.३.२-७
For Private And Personal Use Only