________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
32
तैत्तिरीयसंहिता
[का. १.प्र...
रक्षः परापूता अरातयो रक्षसां भागोऽसि "वायुर्वो विविनक्त दे॒वो वस्सविता हिरण्यपाणिः प्रतिगृह्णातु ॥ ८॥
त्वा भाग एकादश च ॥ ५ ॥
तुषानिरस्यति-रक्षसामिति ॥ सुबोधम् । 'कर्षा त्वतः ' इति भागशब्दोन्तोदात्तः ॥
1 त्वचं विविनक्ति–वायुरिति || वायुर्वो युष्मान् विविनक्तु तण्डुलेभ्यः कणान्पृथक्करोतु ॥ ___"तण्डुलान् प्रस्कन्दयति-देवो व इति ॥ देवस्सविता सर्वस्य प्रेरकः हिरण्यपाणिः हिरण्याभरणपाणिः युष्मान् प्रतिगृह्णातु प्रतिगृह्य रक्षतु । हिरण्यस्य विकारो वलयाङ्गलीयकादिः पाण्योर्यस्येति समुदायविकारषष्ट्या विगृह्य — सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यो वाचोत्तरपदलोपश्च' इति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । 'उशीरदाशेरकपालपलालशैवालश्यामाकशरीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम् ' इति हिरण्यशब्द आधुदात्तः । ' अन्तरिक्षादिव + इत्यादि ब्राह्मणम् ॥
इति पञ्चमोनुवाकः.
CLASARAudior
*ख-पणोय.
त्रा. ३-२-५.
For Private And Personal Use Only