________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. ६.]
भभास्करभाष्योपेता
33
- 'अवधूत५ रक्षोर्वधूता अरातयो ऽदित्यास्त्वगसि प्रति त्वा पृथिवी वैन दिवस्कम्भनिरसि प्रति त्वादित्यास्त्वग्वैत धिषणासि पर्वत्या प्रति त्वा दिवस्कम्भनित 'धिषर्णासि ___1अवधूननोपस्तरणमन्त्रौ व्याख्यातौ ॥
शम्यां निदधाति-दिव इति ॥ 'उडिदम् ' इत्यादिना विभक्तेरुदातत्वम् । दिवो यागसाधनद्वारेण · स्कम्भनिरसि धारयित्र्यसि । स्कनातेः करणे ल्युटि ङीपि वर्णव्यत्ययेन द्वस्वत्वम् । 'गर्भिगयो भवन्ति ' इति यथा । यहा—'वृतेश्च ' इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वात् स्कन्नातेरनिप्रत्ययः । सर्वत्रोञ्छादित्वादन्तोदात्तत्वम् । हे शम्ये अदित्यास्त्वक् , एवंभूतां त्वां, अदित्यास्त्वम्भूतं कृष्णाजिनं प्रतिवेत्तु अनुजानातु आत्मोपरि तवावस्थानम् । ' द्यावापृथिवी सहास्ताम् ' इित्यादि ब्राह्मणम् ॥ ... 'शम्यायां दृषदमत्यादधाति-धिषणेति ॥ धिषणा धृष्टा त्वमसि । हे दृवत् पर्वत्या । पर्वतमहतीति पर्वतशब्दात् 'छन्दसि च.' इति यत्प्रत्ययः । धिषणाशब्दो व्युत्पादितः प्राक् ।। त्वामीदृशी दिवस्कम्भनिः शम्या प्रतिवेत्तु अनुजानातु उपरिनिधानम् ॥
दृषद्युपलामत्यादधति-धिषणेति ॥ धिषणा धृष्टासि हे उपले पार्वतेयी । पर्वतिः परिपूर्णा महाशिला दृषल्लक्षणा । पूर्व पर्व मर्व पूरणे, 'वहिवस्यर्तिभ्यश्चित् ' इति वहतिर्वसतिररतिरिति विधीय*सं.१-१-५.6-7 सं.२-१-२. बा. ३-२-६. क-इति यः पसं.१-१-२३.
5*
For Private And Personal Use Only