SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] भट्टभास्करभाष्योपेता र्जुमावद द्यमदत वयः सङ्घातं जैष्म "वर्षवृद्वमसि "प्रति त्वा वर्षवृद्धं वेत्त परापूत५ दमन्नं आवद देवेभ्य आवेदय, युष्मदर्थमिदमनेन यजमानेन संस्क्रियते, इति । एवं ऊर्जमावदेति व्याख्यातम् । ऊ रसः । इदानीं यज्ञायुधान्युच्यन्ते—द्युमत् दीप्तिमत् । दिवेः क्विप्प्रत्ययान्तान्मतुपि :दिव उत् ' इत्युत्वे ' द्वस्वनुङ्यां मतुप् ' इति मतुप उदात्तत्वम् । ईदृशामिदमन्नं संस्क्रियमाणं देवेभ्यो वदत वेदयत । ननु देवारस्वयमेव ज्ञात्यन्ति, तत्किमनेन घोषणेनेत्यत्राह-वयं युष्मदीयेन शब्देन सङ्घातं भ्रातृव्यसमूहं जेष्म जयेम । जयतेर्लेटि ‘सिब्बहुळं लेटि' इति सिप्प्रत्यः, 'बहुळं छन्दसि' इति शपो लुक् । सङ्घातशब्दस्य थाथादिस्वरेण उत्तरपदान्तोदात्तत्वम् । 'मनोश्श्रद्धा देवस्य ' *इत्यादिब्राह्मणम् ॥ ___ "शूर्पमुपयच्छति-वर्षवृद्धमसीति ॥ व्याख्याता बर्हिषि । इह तु शूर्पमुच्यते ॥ ___ "पुरोडाशीयानुद्वपति-प्रति त्वेति ॥ हे पुरोडाशीयसमूह वपवृद्धं त्वां शूर्पः प्रतिवेत्तु अनुजानातु आत्मोपरि तव प्रक्षेपणं क्षमताम् ॥ ___ परापुनाति-परापूतमिति यजुरादिकैकपदया गायत्र्या । परापूतं परास्तं । शिष्टं प्रत्युष्टादिना व्याख्यातई । ' गतिरनन्तरः ' इति पूर्वपदप्रकृतिस्वरत्वम् । 'यज्ञ५ रक्षा५ स्यनुप्राविशन् '* इति ब्राह्मणम् ॥ *बा.३-२-५. सं. १-१-२६ ग-शूर्प स्वा. सं.१.१.२३ For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy