________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १.४]
भट्टभास्करभाष्योपेता
367
रुक्म उर्ध्या व्यद्यौदुर्मर्षमायुश्थि
ये रुचानः । अग्निरमृतौ अभवद्वरुक्मः । उर्ला । वीति । अद्दयौत् । दुर्मर्षमिति दुः-मर्षम् । आयुः।थिये। रुचानः। अग्निः। अमृतः। अभवत् । वयोभिरिति वयः-भिः ॥ २८ ॥
प्रत्तानीति दाशतये श्रूयते । तदिदमत्रोच्यते-दृशानः साध्वंशनिरूपकः । 'युधिबुधिदृशः किच्च' इत्यानच्प्रत्ययः । रुक्मः रोचनशीलः दीप्तिमान् उा महत्या । तया दीप्त्येति सामर्थ्याद्गम्यते । अयं व्यद्यौत् विविधं प्राप्तावान् । द्यु अभिगमने, आदादिकः, अतो लङ्, 'उतो वृद्धिलुकि हलि' इति वृद्धिः । किं प्राप्तवान् ? दुर्मर्ष दुर्धर्षं अन्यैरप्रधृष्यमायुर्जीवनमन्नं वा । कीदृशः? श्रिये श्रयणाय सेवायै तादृशस्यायुषो लाभाय रुचान इच्छन् । व्यत्ययेन लसार्वधातुकानुदात्तत्वाभावः । ताच्छीलिको वा चानश् । किञ्च-अतोयमग्निरमृतोभवत् अमरणधर्मा बभूव । वयोभिरनैर्देवदत्तैः प्रजातिभिः । यद्यस्मादेनमग्निं द्यौः धुलोकवासी देवगणः तात्स्थ्याल्लक्षणया द्यौरिति व्यपदिश्यते । अजनयत् एवंगुणकमकरोत् । सुरेताः अमोघबीजः । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । तस्मादमृतो भवेति । यहा-अयमग्निः दुर्मर्षमायुर्जीवनमन्नं वा श्रिये श्रयितुं देवेभ्यो लब्धं रुचान इच्छन् । तुमर्थे केप्रत्ययः, 'दृशे विख्ये च' इति चकारस्य अनुक्तसमुच्चयार्थत्वात् । रुक्मः पूर्व मेव द्योतनशीलः अधुनाभीष्टवरलाभेन उर्व्या महत्या दीप्त्या व्यद्यौत् व्यद्युतत् विविधं
For Private And Personal Use Only