________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भभास्करभाष्योपेता
36F
जातवेदाः । तृतीयमप्सु नृमणा
अज॑स्रमिन्धान एनं जरते स्वाधीः। इति जात-वेदाः । तृतीयम् । अप्स्वित्यप्-सु । नृमणा इति नृ-मनाः । अजस्रम् । इन्धानः ।
त्यात्मना अजनिष्ट । 'पञ्चम्याः परावध्यर्थे ' इति विसर्जनीयस्य सत्वम् , अत एव ज्ञापकात्पञ्चमी । अस्मत् अस्मत्तः परि अस्मास्वधि द्वितीयं जज्ञे द्वितीयं जन्माकरोत् वैश्वानरात्मना । जातवेदाः जातानां भूतानां वेदिता, जातधनो वा अप्स्वन्तरिक्षे तृतीयं जज्ञे तृतीयं जन्म चकार वैद्युतात्मना । यहा-अप्सु सलिले और्वात्मना जज्ञे । अजस्रं सर्वदा सर्वेष्वपि जन्मसु, नृमणाः नृषु मनो यस्योपकरोमीति स नृमणाः । 'परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाद्युदात्तत्वम् , 'छन्दस्य॒दवग्रहात्' इति णत्वम् । सर्वदा प्रजानामेवोपकारार्थ जज्ञ इति । तमेनमेवंगुणकं इन्धानः समिञ्चरुपुरोडाशाद्यैस्सन्दीपयन् । इन्धी दीप्तौ, रौधादिकः, अनुदात्तेत् , 'भान्नलोपः' 'विभाषा वेण्विन्धानयोः' इत्याद्युदात्तत्वम् । स्वाधीः स्वा आत्मीयैव धीर्यस्य स स्वाधीः स्वकर्मनिरतः । 'अन्येषामपि दृश्यते ' इति पूर्वपदस्य दीर्घत्वम् , पूर्ववदुत्तरपदाद्युदात्तत्वम् । यद्वा-स्वमात्मानं ध्यायतीति स्वाधीः आत्मनिष्ठः । 'ध्यायतेस्सम्प्रसारणं च ' इति विप् । इन्धानः कर्मनिष्ठः, इन्धानश्च स्वाधीश्च एनं जरते स्तौति । ज़ क्योहानौ छन्दसि स्तुतिकर्मा चौरादिकः आधृषीयः, व्यत्ययेनात्मनेपदम् ॥
*49
For Private And Personal Use Only