SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 तैत्तिरीयसहिता (का.1.प्र.३. अग्ने जनामि सुष्टुतिम् । दिवस्प रि प्रथमं जज्ञे अग्निरस्मद्वितीयं परि वि-चऋषणे । अग्ने । जामि । सुष्टुतिमिति सु-स्तुतिम् । "दिवः । परीति । प्रथमम् । जज्ञे। अग्निः । अस्मत् । द्वितीयम् । परीति । जातवेदा जातवेदः जातप्रज्ञ । यद्वा-~-जातानां भूतानां वेदितः । 'गतिकारकयोरपि ' इत्यसुन् । विचर्षणे विविधदर्शन [विविधचर्षणे] विविधमनुष्य, एतेषामुत्पादकत्वात् । तस्मै ते तादृशाय तुभ्यं प्रतिहटते कामयमानाय वक्ष्यमाणां स्तुतिम् । यहा-प्रतिगन्तुमिच्छते । यद्वा-प्रतिगृह्णते* । हर्य गतौ । सुष्टुतिं शोभनां स्तुति जनामि जनयामि । जनेय॑न्तालट् , 'बहुलं संज्ञाछन्दसोः' इति णिलुक् । जातवेदः इत्यस्यामन्त्रितस्याप्यविद्यमानवत्त्वात् विचर्षण इत्येतदपि न निहन्यते । अग्ने इत्यस्याविद्यमानत्वात् जनामीति तिङन्तं न निहन्यते । 'मन् क्तिन् व्याख्यान ' . इति सुष्टुतिशब्दस्यान्तोदात्तत्वम् । अन्ये खलु दुराराधाः स्तुतिमपि न गृह्णन्ति, त्वं तु स्तुतिं च प्रतिगृह्णासि, ददासि चेप्सितानि । तस्मात् स्तुतिप्रियाय ते स्तुतिं जनयामि । त्वं च तां प्रतिगृह्य यजमानं भूतिं गमयेति भावः । स एवैनं भूतिं गमयति भवत्येव + इति ब्राह्मणम् ॥ "तत्रैव याज्या-दिवस्परीति त्रिष्टुप् ॥ अध्यर्थे परिशब्दः। दिवस्परि झुलोकस्योपरि दिवः अधि अग्निः प्रथमं जज्ञे आदि*ख. ग-स्तुतिम् । यद्वा-प्रातिगच्छते प्रतिगृहते. सं. २-२-३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy