SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भाभास्करभाष्योपैता 363 घृतप्रतीको घृतयोनिरेधि।घृतं पीत्वा मधु चारु गव्य पितेव पुत्रम॑भि ॥ २७ ॥ रक्षतादमम् । तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । इति घृत-प्रतीकः । घृतयोनिरिति घृत-योनिः। एधि । घृतम् । पीत्वा । मधु । चारु । गव्यम् । पिता । इव । पुत्रम् । अभीति ॥ २७ ॥ रक्षतात् । इमम् । "तस्मै ।ते। प्रतिहर्यंत इति प्रति-हर्यते। जातवेद इति जात-वेदः । विचऋषण इति जुषाणः हविस्सेवमानः भुञ्जानः । ‘क्रियाग्रहणं कर्तव्यम् ' इति सम्प्रदानत्वाञ्चतुर्थ्यर्थे षष्ठी । जुषी प्रीतिसेवनयोः तौदादिक अनुदात्तेत् , ताच्छीलिकश्चानश् , हविस्सेवनशीलः, लसार्वधातुकत्वाभावात् 'चितः' इत्यन्तोदात्तत्वम् , 'बहुलं छन्दसि' इति शपो लुक् । घृतप्रतीकः घृतारम्भः, घृतं खल्वनेरारम्भः । यहा–आधाराभिप्रायमिदं घृतयागारम्भः । घृतयोनिः घृतकारणकः, ईदृशस्त्वमस्यायुर्दाः एधि इदं घृतं पीत्वा । कीदृशं ? मधु मधुरं चारु शोभनं निर्मलं गव्यम् । 'गोपयसोर्यत् ', 'यतोऽनावः' इत्याधुदात्तत्वम् । किं बहुनेत्याह-पिता पुत्रमिवेमं यजमानं अभिरक्षतात् आभिमुख्यन रक्षतु ॥ ___ 18 अग्नये जातवेदसे पुरोडाशमष्टाकपालं निर्वपेद्भूतिकामः '* इत्यस्य पुरोनुवाक्या-तस्मै त इति गायत्री ॥ हे अमे *सं. २-२.३. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy