________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
362
तैत्तिरीयसंहिता
[का... प्र.३.
विश्वौ दधदयमग्निवरेण्यः। पुनस्ते प्राण आयति परा यक्ष्म सुवामि
ते । आयुर्दा अंग्रे हविर्षों जुषाणो विश्वतः । दधत् । अयम् । अग्निः । वरेण्यः । पुनः। ते । प्राण इति प्र-अनः। एति । अयति । परेति । यक्ष्मम् । सुवामि । ते । "आयुर्दा इत्यायुः-दाः । अग्ने । हविषः । जुषाणः । घृतप्रतीक हे यजमान अयमग्निर्वरेण्यः वरणीयः । 'वृज एण्यः ', बृषादित्वादाद्युदात्तत्वम् । ते तुभ्यं विश्वतः विश्वमायुर्दधत् दधातु । 'इतराभ्योपि दृश्यन्ते' इति द्वितीयान्तात्तसिल । दधातेलेंटि ‘लेटोडाटौ' इत्यडागमः, 'घोर्लोपो लेटि वा' इत्याकारलोपः । 'युष्मत्तत्ततक्षुष्वन्तःपादम् ' इति संहितायां आयुस्सकारस्य षत्वम् । यदायं प्रसीदति तदानीं गतोपि प्राणः पुनरायति पुनराभिमुख्येनास्मान्प्राप्नोति । इ गतौ भौवादिक उदात्तत् । यहा-पुनरपि* त्वदीयः प्राण आयात्वस्या प्रसादेन । अहमपि तदर्थं त्वदीयं शत्रुपक्षं परासुवामि नाशयामि । पू प्रेरणे तौदादिक उदात्तेत् । ‘स एवास्मिन्नायुर्दधाति। इति ब्राह्मणम् ॥
तत्रैव याज्या-आयुर्दा इति त्रिष्टुप् ॥ हे अग्ने आयुर्दाः अस्य यजमानस्य आयुषो दाता एधि भव । 'अन्येभ्योपि दृश्यते' इति ददातर्विचि कदुत्तरपदप्रकृतिस्वरत्वम् । हविषो
*तं-यद्वा यतः. तिं-आयत्यस्य. सं. २-२-३.
For Private And Personal Use Only