________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाभास्करभाष्योपेता
361
अनु. १४.]
ष्ठः । यः पावकः पुरुतमः पुरूणि
पृथून्यग्निरेनुयाति भवन् । आर्युष्टे नानदत्-भिः । यविष्ठः । यः। पावकः । पुरुतम इति पुरु-तमः । पुरूणि । पृथूनि । अग्निः । अनुयातीत्यनु-याति । भवन् । "आयुः। ते ।
हविषाराध्यत इत्यर्थः, तस्मादयमस्मच्छन्विनाशयत्विति भावः । अधुना तस्यैव हवींषि भुञानस्य गुणानाह-श्वितानः दीप्यमानः । श्विता वर्णे अनुदात्तेत् , ताच्छीलिकश्चानश् , लसार्वधातुकानुदात्तत्वाभावात् 'चितः' इत्यन्तोदात्तत्वम् , 'बहुलं छन्दसि' इति शपो लुक् । तन्यतुः तनिता विस्तारयिता सिद्धीनां दीप्तीनां वा । 'ऋतन्यश्चि' इत्यादिना तनोतेर्यतुच्प्रत्ययः । रोचनस्थाः रोचनेषु दीप्तिमत्स्थानेषु स्थितः । 'अनुदात्तेतश्च हलादेः' इति रोचतेर्युच्प्रत्ययः । रोचनेषु तिष्ठतीति वा तिष्ठतेः क्विप् , कदुत्तरपदप्रकृतिस्वरत्वम् । अनरेभिर्जरारहितैः अक्षीणैः । ' नोजरमरमित्रमृताः' इत्युत्तरपदाद्युदात्तत्वम्, 'बहुलं छन्दसि' इत्यैसभावः । नानदद्भिरत्यर्थ नदद्भिः स्तुवद्भिः ऋत्विग्भिः यजमानगणैर्वा परिवृतः । यङ्डगन्ताच्छतरि 'अभ्यस्तानामादिः । इत्याद्युदात्तत्वम् । यविष्ठः युवतमः सोयमेवंविधोस्मदीयेन हविषा तृप्तोस्मच्छन्विनाशयत्विति शेषः ॥
11 अनय आयुष्मते पुरोडाशमष्टाकपालं निर्व पेद्यः कामयेत सर्वमायुरियाम् '* इत्यस्य पुरोनुवाक्या-आयुष्ट इत्यनुष्टुप् ॥
*सं. २-२.३.
For Private And Personal Use Only