________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
358
तैत्तिरीयसंहिता
का.१. प्र.३.
अङ्गिरस्तम विश्वास्सुक्षितयः पृथक् । अग्ने कामाय येमिरे ।अश्याम त काममग्ने तवोत्यश्याम रयि५
रेयिवस्सुवीरम् । अश्याम वामअङ्गिरस्तमेत्यङ्गिरः-तम । विश्वाः । सुक्षितय इति सु-क्षितयः । पृथक् । अग्ने । कामाय । येमिरे । अश्याम । तम् । कामम् । अग्ने । तव। ऊती। अश्याम । रयिम् । रयिव इति रयि-वः । सुवीरमिति सु-वीरम् । अश्याम । वाज॑म् ।
त्वामाराधयितुमात्मानं विषयेभ्यो व्यावर्तयन्ति । व्यत्ययेनात्मनेपदम् । यद्वा-पृथग्यमयन्ति नानाविधैरुपायैरात्मानं यमयन्ति त्वामाराधयितुम् । तस्माद्वयमप्यस्मत्कामसिद्धये त्वामेव भजामह इति भावः । ‘स एवैनं कामेन समर्धयत्युपैनं कामो नमति '* इति ब्राह्मणम् ॥
तत्रैव याज्या-अश्यामेति त्रिष्टुप् । उत्यन्तः प्रथमः पादः ॥ हे अग्ने तं काममश्याम अश्नुवीमहि, यदर्थमात्मा तुभ्यं निवेदितः । अशू व्याप्ती, व्यत्ययेन परस्मैपदम् , 'बहुलं छन्दसि' इति शपो लुक् , यासुडादि । तवोती तव रक्षया । अवतेः क्तिनि ज्वरत्वरादिना उठादेशः, 'उतियूतिजूति ' इति क्तिन उदात्तत्वं निपात्यते, तृतीयैकवचनस्य 'सुपां सुलुक्'
*सं. २.२-३.
For Private And Personal Use Only