SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 356 तैत्तिरीयसंहिता [का. १. प्र. ३. रोदसी भानुना भात्यन्तः । त्वे वसूनि पुर्वणीक ॥ २५ ॥ होतो षा वस्तोरेरिरे यज्ञियासः । क्षामैव भानुना । भाति । अन्तः । 'त्वे इति । वसूनि । पुर्वणीकति पुरु-अनीक ॥२५॥ होतः । दोषा। वस्तौः । एति । ईरिरे । यज्ञियासः । क्षाम । ___ 'अभि वा एष एतस्य गृहानुच्यति यस्य गृहान्दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्व पेत् '* इत्यस्यापीयमेव पुरोनुवाक्या । तत्र त्वेवं व्याख्येयम् --क्षाम क्षीणं दग्धमस्मगृहं रेरिहत् आस्वादयन्वीरुधो गृहावयवान् स्थूणावंशादीन् समझन् भक्षयन्नयं खल्वग्निरक्रन्दत् । तस्मादिममिदानीमेवानेन हविषा प्रसन्नं करोमि, यथा पुनरस्मद्गृहं न धक्ष्यतीति । ‘भागधेयेनैवैनं शमयति नास्यापरं गृहान्दहति '* इति ब्राह्मणम् ॥ . तेषु त्रिष्वपि याज्या-वे वसूनीति त्रिष्टुप् ॥ हे पुर्वणीक बहुबल होतः देवानामाह्वातः त्वे त्वयि खलु एरिरे। 'सुपां सुलुक् ' इति शे आदेशः । वसूनि धनानि वासहेतुत्वाद्वरिष्ठनि। वा धनानि हविर्लक्षणानि दोषावस्तोः रात्रावह्नि च यज्ञियासः यज्ञार्हाः आईरिरे आभिमुख्येन प्रेरयन्ति प्रक्षिपन्तीत्यर्थः । ईर गतौ अनुदात्तत् । 'यज्ञविभ्यां घखनौ, 'आज्जसेरसुक्' । कीदृशे त्वयीत्याह—यस्मिन्पावके त्वयि *सं. २-२-२. खि. ग.-वसिष्ठानि. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy