________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनु. १४.]
भट्टभास्करभाष्योपेता
355
व द्यौः क्षामा रेरिहवीरुधस्समजन्न् ।
सद्यो जलानो वि हीमिडो अख्यदा इव । द्यौः । क्षामं । रेरिहत् । वीरुधः । समञ्जनिति सं-अञ्जन्न् । सद्यः । जज्ञानः । वीति । हि। ईम् । इद्धः । अख्यत् । एति । रोदसी इति । यस्मादयमानः जज्ञानो जायमानः । जनी प्रादुर्भावे देवादिकः, 'बहुळं छन्दसि' इति शपः श्लुः । यद्दा-जन जनने जुहोत्यादिकः, व्यत्ययेनात्मनेपदम् । सद्य एव तत्क्षणादेव इद्धः दीप्तः रोदसी द्यावाप्टथिव्यौ व्यख्यत् व्यचेष्टत व्यपश्यत् । छान्दसो लुङ्, 'अस्यतिवक्तिख्यातिभ्योङ्,' 'हिच' इति निघातप्रतिषेधः । स्वयं च भानुना तेजसा अन्तवाप्रथिव्योमध्ये आभाति समन्तात्प्रकाशते । यद्वा-रोदसी व्यख्यत् विचष्टे यथावत्प्रकाशयति । स्वयमपि तयोर्मध्ये भाति । तस्मान्महातेजसानेन किं हि नाम कर्तुं न शक्यते इति भावः । ‘भागधेयेनैवैन५ शमयित्वा परानभि निर्दिशति । इति ब्राह्मणम् ।
'अभि वा एष एतानुच्यति येषां पूर्वापरा अन्वश्चः प्रमीयन्ते पुरुषाहुतिर्यस्य प्रियतमानये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् । इत्यस्यापीयमेव पुरोनुवाक्या । तदैवं योजनीयम्अयमेवंगुणविशिष्टोनिरस्माकं पूर्वापरप्रमादहेतुं पापं क्षाम क्षीणं यथा तथा रेरिहत् आस्वादयन् नाशयन् अनेन हविषा समिद्धः शब्दं करोत्विति । 'भागधेयेनैवैनं शमयति नैषां पुरायुषोपरः प्र मयिते इति ब्राह्मणम् । *क-विचष्टे विपश्यति.
सिं. २-२-२.
For Private And Personal Use Only