________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
350
तैत्तिरीयसंहिता
का. १. प्र. ३.
ररुणैर्यासि शङ्गन्यस्त्वं पूषा विधुतः पास नु त्मना । आ वो राजानमध्वरस्य रुद्र होतार ५ सत्ययज
रोदस्योः । अग्निं पुरा नियित्नोरवातैः । अरुणैः । यासि । शङ्गय इति शं-गयः। त्वम् । पूषा । विधत इति वि-धतः । पासि । नु । त्मना । एति । वः । राजानम् । अध्वरस्य । रुद्रम् । होतारम् । सत्ययजमिति सत्य-यज॑म् । रोद॑स्योः । अग्निम् । पुरा । तयित्नोः। अचित्ताभूत्वा विधतः परिचरतः पासि चरुपुरोडाशादिभिस्त्वामर्चयतो रक्षसि । ' श्वन्नुक्षन्पूषन् ' इति पुषेः कनिन्प्रत्ययो निपातितः । विध विधाने तौदादिकः, 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । नु क्षिप्रं त्मना आत्मना स्वयमेव । 'मन्त्रेष्वाङादेरात्मनः' इत्याकारलोपः । हे अग्ने रुद्ररूप एवंगुणविशिष्टस्त्वं रुद्रतुल्यपराक्रमो भूत्वा अनया घोरया तन्वा अस्माकं शत्रून्मारयेति भावः । 'एषा वा अस्य घोरा तनूर्यद्रुद्रः '* इत्यादि ब्राह्मणम् ॥
'तस्यैव याज्या-आ व इति त्रिष्टुप् ॥ हे ऋत्विग्यजमानाः अध्वरस्य राजानं प्रधानाधिपति रुद्रं होतारमभिमतानां दातारं, आह्वातारं वा । 'बहुळं छन्दसि' इति सम्प्रसारणम् । रोदस्योः
*सं. २-२-२.
For Private And Personal Use Only