SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. १४.] भभास्करभाष्योपेता 351 www. चित्ताहिरण्यरूपमर्वसे कृणुध्वम् । अग्निर् होता निषसादा यर्जीयानुत् । हिरण्यरूपमिति हिरण्य-रूपम् । अव॑से । कृणुध्वम् । अग्निः । होता । नीति । ससाद । द्यावाप्रथिव्योस्सत्ययनं सत्यस्यान्नस्य दातारम् । 'अन्येभ्योपि दृश्यते, इति विच् , कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा-सत्यममोघं यजनं यस्य । 'परादिश्छन्दसि बहुलम् ' इत्युत्तरपदायुदात्तत्वम् । यहा-सत्यमेव यजनं यस्य । यद्वा-सत्यस्य परमार्थस्यानन्द*लक्षणस्य सङ्गमयितारम् । हिरण्यरूपं हिरण्यवर्णमग्निं अग्निरूपेणावस्थितं वः युष्माकमवसे रक्षणाय तृप्तये वा कृणुध्वं आत्मसात्कुरुध्वम् , शत्रुमारणादियुष्मदभिमतसिद्ध्यर्थं भजध्वमित्यर्थः । कवि हिंसाकरणयोः, 'धिन्विकृण्व्योरच ' इत्युप्रत्ययः, व्यत्ययेनात्मनेपदम् । करोतेर्वा व्यत्ययेन प्रत्ययः । अचित्तात्पुरा, चित्तस्याभावोऽचित्तं अन्तःकरणोपसंहारो मरणमिति यावत् । यहा—यस्मिन्सति चित्तं नास्ति तन्मरणमेव । ततः प्रागेव देवं भनध्वमिति । 'परादिश्छन्दसि बहुलम् ' इत्युत्तरपदाादात्तत्वम् । कीदृशादचित्तात् ? तनयिनोः तनयिनुर्मेघस्तादशात् ; अनिश्चितकालत्वात् । स्तन शब्दे चुरादिरदन्तः, 'स्तनिषिपुषिगदिमदिभ्यो गेरिनुच् ' इतीनुच्प्रत्ययः सकारलोपश्चान्दसः । 3" अग्नये सुरभिमते पुरोडाशमष्टाकपालं निर्वपेद्यस्य गावो वा पुरुषा वा प्रमीयेरन्यो वा बिभीयात् + इत्यस्य पुरोनुवाक्या *ख-परमात्मानन्द. सिं. २-२-२. For Private And Personal Use Only
SR No.020803
Book TitleTaittiriya Samhita Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages402
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy