________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
348
तत्तिरीयसंहिता
का.1.३
पृत्सु मर्त्यमावो वाजेषु यं जुनाः ।
स यन्ता शश्वतीरिषः ॥ २३ ॥ मयंम् । आवः । वाजेषु । यम् । जुनाः । सः। यन्ता । शश्वतीः । इषः ॥ २३ ॥
नु सप्तचत्वारिशच्च ॥ १३ ॥
आडागम उदात्तः । 'मांस्टत्स्नूनामुपसङ्यानम् ' इति एतनाशब्दस्य एदावः, 'सावेकाचः' इति विभक्तेरुदात्तत्वम् । कः पुनरसौ? यं एतनासु रक्षसीत्याह वाजेष्वन्नेषु निमित्तभूतेषु । 'निमित्तात्कर्मसंयोगे' इति सप्तमी । अन्नार्थ यं जुनाः गच्छसि । जु इति सौत्रो धातुः वेगितायां गतौ वर्तते, तस्मात्पूर्ववल्लुङ्, भाप्रत्ययः, 'बहुळं छन्दस्यमाङयोगेपि ' इत्यडभावः । हवींषि ग्रहीतुं यस्य सकाशं सदा गच्छसीत्यर्थः । स एव खलु त्वया सङ्गामेषु रक्ष्यत्वेन ग्राह्यते । यश्च त्वयैवं रक्ष्यते स एव खलु त्वयानुगृहीतः यन्ता यमयिता वशीकर्ता । 'न लुट् ' इति निघातप्रतिषेधः, उदात्तनिवृत्तिस्वरो व्यत्ययेन प्रवर्तते । किं वशीकरिष्यतीत्याह-शश्वतीः नित्याः इषः अन्नादि प्रभूतं धनं प्रामोतीत्यर्थः । शश्वच्छब्दात् 'उगितश्च ' इति डीप् ॥
इति तृतीये त्रयोदशोनुवाकः.
For Private And Personal Use Only